| YouTube Channel

अयुक्तं (ayuktaM)

 
शब्दकल्पद्रुमः
Sanskrit
अयुक्तं, त्रि, (युज् + क्तः, नञ्समासः ।) अमि-श्रितं अनुचितं यथा, --“अयुक्तं यदिह प्रोक्तं प्रमादेन भ्रमेण वा” ।इति दुर्गादासः
(असंसक्तः संयोगरहितः ।अनियोजितः यथा, “अयुक्तचारा राजानो भविष्यन्ति कथं नु ते” ।इति रामायणे सर्व्वदा विषयासक्तचित्ततयाकर्त्तव्येष्वनवहितः ।“परावमन्ता विषयेषु सङ्गवान्, देशकालप्रविभागतत्त्ववित् ।अयुक्तबुद्धिर्गुणदोषनिश्चये, विपन्नराज्यो चिरात् विपत्स्यसे”
इति रामायणे ।)