| YouTube Channel

अयाचितं (ayAcitaM)

 
शब्दकल्पद्रुमः
Sanskrit
अयाचितं, त्रि, (याच् + क्तः, नञ्समासः ।) याच्-ञां विना लब्धवस्तु अप्रार्थितं इत्यमृतशब्दार्थेमेदिनी
(अनर्थितं “अयाचितोपस्थितमम्बुकेवलं” इति कुमारसम्भवे “अमृतं स्याद-याचितं” इति मनुः “अयाचिताहृतं ग्राह्य-मपि दुष्कृतकर्म्मणः” इति स्मृतिः ।)