| YouTube Channel

अयस्कान्तः (ayaskAntaH)

 
Apte Hindi
Hindi
अयस्कान्तः
पुं*
अयस्-कान्तः -
"चुंबक, चुंबक पत्थर"
अयस्कान्तः
पुं*
अयस्-कान्तः -
मूल्यवान् पत्थर
E Bharati Sampat
Sanskrit
(पु) अयस्सु कान्तः रमणीयः। १.कान्तिलोहः, चुम्बकः लोहभेदः। ‘शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत्’ कुमा०२.५९। २.अयसां कान्तः इष्टः सन्निधिमात्रेण आकर्षकत्वात् सन्निधिमात्रेण लोहाकर्षकः। ३.व्रणचिकित्साभेदः। ‘अनुलोममनवनद्धमकर्णमनल्पव्रणमयस्कान्तेन’ सुश्रुतः।
Wordnet
Sanskrit
Synonyms:
अयस्कान्तः, अयोमणिः, लोहकान्तः, चुम्बकः
noun
रासायनिकधातुविशेषः, अयस्सु कान्तः प्रस्तरभेदः।
"अयस्कारः अयस्कान्तेन सूक्ष्मलोहकणान् उञ्छति।"
वैजयन्तीकोषः
Sanskrit
Word: अयस्कान्तः
Root: अयस्कान्त
Gender: पुं
Number: all
अर्थः
Meaning(s):
Magnet
Shloka(s):
3|2|37|2 चन्द्रकान्तश्चन्द्रमणिः सुसामोऽथ त्वयोमणिः॥ (भूमिकाण्डः/शैलाध्यायः)
3|2|38|1 अयस्कान्तस्तद्विशेषाश्चुम्बकभ्रामकादयः। (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
3|2|37|2 अयोमणिः (अयोमणि) (पुं) Magnet
3|2|38|1 अयस्कान्तः (अयस्कान्त) (पुं) Magnet
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
अयस्कान्तः,
पुं,
(अयस्सु कान्तः रमणीयः ।) लौह-विशेषः कान्तलोह इति ख्यातः तत्प-र्य्यायः कान्तलोहं कान्तं लौहकान्तकं४ कान्तायसं कृष्णलोहं महालोहं ।अस्य गुणाः तीक्ष्णत्वं उष्णत्वं रूक्षत्वं ।पाण्डुशोथकफपित्तहरत्वं रसायनत्वं अनु-त्तमत्वञ्च चतुर्व्विधः भ्रामकः चुम्बकः२ रोमकः स्वेदकः एते रसायने उत्त-रोत्तरगुणिनः ।“क्रमेण दार्ढ्याङ्गकान्तिकार्त्स्न्येनीरोगदायिनः” ।इति राजनिर्घण्टः
चुम्बकप्रस्तरोऽप्ययं (चुम्बकइति ख्यातः प्रस्तरभेदः चुम्बकपाथर इतिभाषा ।“उमारूपेण ते यूयं संयमस्तिमितं मनः ।शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्”
इति कुमारसम्भवे ।)(“ततः कोटिसहस्रैर्वा कान्तलौहं महागुणं” ।इति वैद्यकरसेन्द्रसारसङ्ग्रहः
)