अयनसंक्रान्ति (ayanasaMkrAnti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritअयनसंक्रान्ति स्त्री अयनेन राशिचक्रस्य पश्चात्, प्राग्वा-गत्या कृता संक्रान्तिर्ग्रहाणां प्रभापुञ्जस्य सञ्चारः सम् +क्रम--क्तिन् । चलसंक्रान्तौ, संक्रान्तिस्त्रिविधा मध्या-चला अचला चेति भेदात् मध्यानुपदं बक्ष्यते मेषादि-भिर्द्वादशभिः स्थानैर्विभक्तस्य निराधारतया स्थितस्य राशि-चक्रस्य दोलायमानतया प्राक् पश्चाद्वा निर्द्दिष्टमेषादि-स्थानात् पश्चात् पूर्व्वं वा राश्यन्तरे मण्डलगतिंविनापि ग्रहाणां प्रभापुञ्जमात्रसंचारः चलसंक्रान्तिःअनियतस्थानतया चलत्वात् । निर्द्दिष्टराशिस्थानेषुग्रहाणां मण्डलसञ्चारः अचलसंक्रान्तिः राशिसंक्रान्ति-रिति चोच्यते तस्या नियतमेकस्थानएव जायमानत्वाद-चलत्वम् । अनयैव संक्रान्त्या यथा मासादिव्यवहारेन दोषः चलसंक्रान्त्या तु बहवो दोषास्तथा निरूप्यतेतथा हि ग्रहाणामाक्रान्तराशितो राश्यन्तरक्रमणसंक्रान्तिरित्युच्यते सा च द्विधा मध्यमा स्पष्टा च ।षट्कर्म्मसंस्कृतो मध्यग्रहो यदा राश्यन्तरं संक्रां-मति तदा मध्यसंक्रान्तिरित्युच्यते यदा तु स्पष्टीकृत-संस्कारो ग्रहो राश्यन्तरं गच्छति सा स्पष्टसंक्रान्तिरित्युच्यतेतत्र मध्यसंक्रमस्य स्पष्टीकरणार्थत्वादेव तज्जनितसंक्रान्तेःस्पष्टीकार एवोपयोगात् लोकशास्त्रयोर्व्यवहारे न तस्यउपयोगः किन्तु “गुरोर्भध्यमसंक्रान्तिहीनोयश्चान्द्रवत्सरः ।अधिसंवत्सरस्तस्मिन् कारयेन्न सवत्रयम् । वर्जनीया प्रय-त्नेन प्रतिष्ठा सर्वनाकिनाम् स्फुटसंक्रान्तिहीनश्चेत्केऽप्याहरधिमासकम्” इति कालमाधवीयधृतस्मृतेः मध्य-संक्रान्तेरपि अधिवत्सरोपयोगिता तदन्यत्र तु तस्या-नोपयोगः इति स्पष्टसंक्रान्तेरेव लोकशास्त्रोपयोगः । स्पष्ट-संक्रान्तिरपि द्विविधा सायनांशा निरयनांशा चेति भेदात्यदा सिद्वान्तगणनयायनांशसंस्कृतो ग्रहोराश्यन्तरं गच्छतिसा सायनांशा संक्रान्तिः । यदा तु अयनांशसंस्कार-रहितः राश्यन्तरं गच्छति सा निरयनांशा संक्रान्ति-रुच्यते । संक्रान्तिश्च “त्रुटेः सहस्रभागोयः स कालोर-विसंक्रम” इत्युक्तसूक्ष्मकालरूपा एतच्च क्रियैव काल इतिमते अन्यमतेतु संक्रान्त्युपलक्षितस्तादृशसूक्ष्मकालैतिभेदः । तादृश सूक्ष्मकालस्य संक्रान्तिशब्दार्थत्वे संक्रान्तिशब्देवक्ष्यमाणदानाद्यङ्गत्वासम्भवेन “मुख्याभावे प्रतिनिधिःशास्त्रार्थं” इति न्यायेन गौणकालस्याप्यदर्त्तव्यता स्नाना-द्यङ्गत्वान्ययानुपपत्त्या च तथा कल्प्यत्वे स्मृत्याद्युक्तंकाल-विशेष एव तदङ्गत्वेन कल्पाते यथोक्तं कालमाधवीयेस्नानदानाद्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुक-ल्पएवादर्त्तव्यः यथाहं देवलः “संक्रान्तिसमयः सूक्ष्मोदुर्ज्ञेयःपिशितेक्षणैः । तद्योगादप्यधश्चोर्द्धं त्रिशंन्नाड्यः पवित्रिताः”इति देशव्यवधानराहित्येनात्यन्तसंश्लिष्टयोः पूर्व्वोत्तरराश्यो-र्मध्ये सूर्य्यः पूर्बराशिं परित्यज्य यावता कालेनोत्तरराशिंप्रविशति स कालः योगदृष्टिं बिना मांसदृष्ट्या दुर्ल्लक्ष्यःअतोऽनुष्ठाने मुख्यसंक्रान्तिकालग्रहणासंभवात् संक्रान्तिसम्ब-न्धिनौ पूर्व्वोत्तरकालौ ग्रहीतव्यौ संक्रान्तेः पूर्बोत्तरयोरेकै-कस्मिंस्त्रिंशद्वटिकाः पुण्या इति सामान्यत उक्तमिति” । तत्रअचलसंक्रान्तेरिव चलसंक्रान्तेरपि पुण्यकालतास्ति यथोक्तंतत्रैव मेषादिसंक्रान्तयो यस्मिन्दिने भवन्ति तस्माद्दिनात्पूर्वेभ्य एकादशदिनेभ्यः प्राचीने दिने मेषायनमेवं वृषभाय-नभित्येयं तनामाङ्कितस्यवति तत्काले तस्मिन्नयते स्नानादिषुपुण्यकालमाह जावालिः “संक्रान्तिषु यथा कालस्तदीये-ऽप्ययने तथा । अयने विंशतिः पूर्वा मकरे विंशतिः परेति”मकरव्यतिरिक्तैकादशसंक्रान्तिसम्बन्धिष्वयनेषु तत्तत्सं-कान्तिवत् पुण्यकालोऽवगन्तव्यः मकरसंक्रान्तिसंम्बन्धिनि त्व-यने संक्रान्तिवैलक्षण्यं, तद्यथा मकरमिन्ने प्राचीना विंशति-षटिकाः पुण्याः मकरसंक्रान्तौ तु पाश्चात्त्या विंशतिघटिकाःपुण्या इति” । न केवलमादित्यस्यैव संक्रान्तिष्वयने पुण्यकालःकिन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे पुण्यकालोभवति इयांस्तु विशेषोरवेरेव राशिसंक्रमे पुण्यकालः अ-यनसंक्रमे तु चन्द्रादीनामपि कालविशेषे पुण्यता यथाहतत्रैव ल्योतिःशास्त्रे “नक्षत्रराश्योरविसंक्रमे स्युरर्वाक्सरस्ताद्रसवन्द्रनाद्यः पुण्यास्तयेन्दोस्त्रिधरालवैर्युता एकैवनाडी मुनिभिः शुभोक्ता । नाड्यश्चतस्रः सपलाः कुजस्य ।बुथस्य तिस्रः पलविश्वयुक्ताः । अध्यर्द्धनाड्यः पलसप्त-युक्ता गुरोश्चतस्रः सपलाश्च शुक्रे । द्विनागनाड्यः पलसप्त-युक्ताः शनैश्चरस्याभिहिताः सुपुण्याः । आद्यन्तमध्ये जपहोम-दानं कुर्वन्नवाप्नोति सुरेन्द्रधामेति” । अयमर्थः आदित्यस्यराशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्यकालःतथा चन्द्रस्यापि घटिकैका पलानि च त्रयोदशार्वाक्परतश्व-पुण्यकालः । एवं मङ्गलस्य चतस्रो घटिकाः पलमेकं चपुण्यकालः तथा बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि चपुण्यकालः वृहस्पतेरपि सार्द्धचतस्रो घटिकाः सप्न पलानिच पुण्यकालः । शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालःशनैश्चरस्य द्व्यशीतिघटिकाः पलानि च सप्न पुण्यकालः ।पीयूषघारायां तु जैमिनिवचनत्वेन एतद्वचनमुपन्यस्तम् ।मेषायनादिषु संक्रान्तिस्फुटीकरणञ्च मुहूर्त्तचिन्तामणौ “तथा-यनांशाः खरसाहताश्च स्पष्टार्कगत्या विहृतादिनादि । मेषा-दितः प्राक् चलसंक्रमाः स्युर्दाने जपादौ बहुपुण्यदास्ते” ।यथा राशिसंक्रमाः बहुपुण्य दास्तथा चलसंक्रमा अपीतिद्योतनाय तथाशब्दः । अयनांशाः षष्ठ्या गुण्या स्पष्टयासूर्य्यगत्या विहृताः लब्धैर्दिनाद्यैः दिनघटीपलैः कलांकृत्वा मेषादिद्वादशराशिसंक्रमणकालात् प्राक्चलसंक्रमाश्चलसंक्रान्तयः चलसंक्रमदाने ब्राह्मणेभ्यो दक्षिणादाने जपादौजपश्राद्वहोमादौ बहुपुण्यदा भवन्ति तदुक्तं वशिष्ठसिद्धान्तेचलसंक्रमयुङ्मासे संक्रमोयः स संक्रमः अजागलस्तन इवराशिसंक्रान्तिरुच्यते” पुलस्त्यः “अयनांशसंस्कृतोभानुर्गोले-चरति सर्वदा अमुख्या राशिसंक्रान्तिस्तुल्यः कालविधिस्तयोः ।स्नानदानजपश्राद्धव्रतहोमादिकर्म्मणि यत् कृतं चलसंक्रा-न्तावक्षयं पुरुषोऽश्नुते” इति रत्नमालायाम् “यावद्भिरंशैर-यनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य । च्युतिर्भवेद्विष्णुप-दादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति” अयनोशा-नयनञ्च अयनशब्दे दर्शितम् । तत्तद्राश्यादिमार्गेषु सूर्य्यादितेजःपुञ्जसञ्चारश्चलसंक्रमोमण्डलमध्यसंपर्कश्च राशिसंक्रमइतिविषयवियेकः तद्यथा रथ्यायां प्राक् पश्चाद्वा नीयमानस्यदीपस्याग्रेदीपप्रभा यस्मिन्प्रदेशे गच्छति तस्मिन्नेव प्रदेशेक्षणान्तरेण दीपोऽपि गच्छति एवं सर्वेषामपि ग्रहाणांचससंक्रमा द्रष्टव्याः नन्वेवं चलसंक्रमस्य मुख्यत्वे तेनैवमानेन पञ्चाङ्गगणना स्यात् इति चेत् न अश्विन्यादिभानांविसंवादात् तथाहि सूर्य्याक्रान्तराशितश्चतुर्द्दशनत्रस्यैवसन्ध्याकाले प्रथममुदयोज्योतिषे प्रसिद्धः सर्वसम्मतश्च । तत्रयदि अयनांशशोधनमन्तरेणैव सूर्य्यस्य तत्तद्राशिघटक-नक्षत्रस्थितिस्वीकारस्तदा इदानीमयनांशानुसारेण २०, ३५, ४४, एतदं शादितः पूर्बं रवेर्मेषादौ गत्यावश्यकत्वात् तस्यच तद्घटकनक्षत्रस्थितेस्ततश्चतुर्द्दशनक्षत्रस्य सन्ध्यायांप्रथमोदयापत्तिर्न च तथा दृश्यते तथा यस्मिन् दिनेइदानीममापूर्णिमादयो दृश्यन्ते ततः पूर्वं २०, ३५, ४४सूर्य्यचन्द्रयोरेकराशिस्थत्वेन अमावस्यापत्तिस्ततः पञ्च-दशेऽहनि पूर्णिमापत्तिश्च नचैतत् प्रत्यक्षसंवादीति ।अयनांशशोधतेन निरयनांशसंक्रमादितस्तु सर्व्वं प्रत्यक्षसंवादि । किं च सायनसंक्रमरहितस्य चान्द्रमासस्याऽधि-मासत्वव्यवहारप्रसङ्गः संक्रान्तिद्वययुतस्य तस्य क्षयसासत्वव्यव-हारप्रसङ्गश्च । एवं च बहुविप्लवात् चलसंक्रान्तेः मुख्यत्वेऽपितेनैव मासवर्षगणनादिशङ्का न कार्य्या प्राग्प्रदर्शितपुलस्थवचनेन, अयनशब्दे दर्शितेन सौरागमवाक्येन, “दिनरात्रिप्रमाणानां निर्णयो न भसंक्रमात्” अतः सकलकर्म्माणि”इति, सिद्वान्तशिरोमणिवाक्येन च स्मार्त्तकर्म्मविशेषे, लग्न-ज्ञानादिकर्म्मस्वेव तस्य मुख्यत्वाभिधानात् न तेन सर्वव्यवहारःअन्यथा तत्तद्विशेषोपादानं व्यर्थं स्यात् । एकान्तेन राशि-संक्रमानङ्गीकारे प्रागुक्तवचनजाते राशिसंक्रान्तिवत् पुण्य-कालतामिघानानुपत्तिः तथा च यथा मासवत्सराणामनेक-विधत्वेऽपि क्रियाविशेषे तेषां ग्राह्यता एवं चलस्थिरसं-क्रान्त्योरपि विषयविशेषेऽपि ग्राह्यता । किञ्च सायन-संक्रममात्रेण सर्वव्यवहारे अनेके विसंवादा पीयूषधारायां दर्शिताः । तेऽप्यत्रोपदर्श्यन्ते । सायनगणनयात्वयोग्येऽपि काले ग्रहःकदाचिदेकनक्षत्रान्तरे नक्षत्रयोर-न्तरे वोपलभ्येत सूर्य्यचन्द्रयोस्तु तेजोबहुत्वान्नक्षत्रतेजःपरिभबान्न नक्षत्रसंनिधावुपलम्भो यद्यपि । तथापिकदाचित् क्षीणचन्द्रस्याप्युपलम्भोदृश्यत एव गोचरादिविषयकदुष्टफलानि एकराशिस्थितग्रहयोगफलानि च विरुध्येरन्ग्रहणादिविसंवादश्च । तस्मान्निरयनगणनयैव सर्वोऽपि व्यवहारो युक्तः यत्तु अजागलस्तनैवेत्यादि प्रागुक्तवचनम्“पुण्यत्वंराशिसंक्रान्तेः केचिदाहुर्मनीषिणः नैतन्मम मत-मित्यादिवशिष्ठवाक्यञ्च तत् चलसंक्रान्तेः स्तुतिपरम् “ननिन्दामिन्दनीयं निन्दति किन्तु विधेयं स्तौतीति” न्यायात्अन्यथा संक्रान्तिशब्दे दर्शयिष्यमाणानां राशिसंक्रान्ति-पुण्यकालताबोधकवचनानां बहूर्ना विप्लवापत्तेः “दिनपतिसंक्रमात् प्राक् षोडश नाड्यस्तु पुण्यकाणः सः । परतःषोडश नाड्यः स्नानदानकार्य्येष्विति” वशिष्ठस्यैव वच-नान्तरेण विरोधः स्यात् अयनसंक्रान्तिषु तु अन्थ-विधस्यैव तेन पुण्यकालतीक्तेस्ततो विलक्षणविषयत्वौ-चित्यं तादृशवचनानाम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
