| YouTube Channel

अयनं (ayanaM)

 
शब्दकल्पद्रुमः
Sanskrit
अयनं,
क्ली,
(अय + भावे ल्युट् ।) शास्त्रं यथा, --“ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” ।इति तिथ्यादितत्त्वं
पन्थाः सूर्य्यस्य उत्तर-दक्षिणदिग्गमनं तद्यथा माघादिषण्मासाःउत्तरायणं श्रावणादिषण्मासाः दक्षिणायनं ।इत्यमरः
गमनं गत्थर्थायधातोर्भावेऽनट्
रविसंक्रान्तिविशेषः यथा भविष्यमात्स्यज्यो-तिषेषु ।“मृगकर्कटसंक्रान्ती द्वे तूदक्दक्षिणायने ।विषुवती तुला मेषे गोलमध्ये तथापराः”
मृगो मकरः गोलो राशिचक्रं देवीपुराणे, “यावद्विंशकला मुक्ता तत्पुण्यं चोत्तरायणे ।निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने”
तत्र स्नानदानादौ कोटिगुणफलं भवति यथामात्स्ये ।“अयने कोटिगुणितं लक्षं विष्णुपदीषु ।”इत्वादि ।“अयने विषुवे चैव शयने बोधने हरेः ।अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु”
इति तिथ्यादितत्त्वं
*
सूर्य्यगतिविशेषः ।यथा, --“मृगसंक्रान्तितः पूर्व्वं पञ्चात्तारादिनान्तरे ।एकवर्षे चतुःपञ्चपलमानक्रमेण तु
षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः ।एवं चतुःपञ्चदिनमयनारम्भणं क्रमात्
व्युत्क्रमेण तद्वत् स्यादुदग्यानं रवेर्ध्रुवं ।कर्क्किसंक्रमणे तद्वदभितो दक्षिणायनं”
इति ज्योतिस्तत्त्वं