| YouTube Channel

अम्लिकावटकः (amlikAvaTakaH)

 
E Bharati Sampat
Sanskrit
(पुं) अम्लिकायाः वटकः। वटकभेदः। ‘अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् तन्नीरे कृतसंस्कारे वटकान् मज्जयेत् पुनः॥ अम्लिकावटकास्ते तु रुच्यवह्निप्रदीपनाः’ भावप्र०।
शब्दकल्पद्रुमः
Sanskrit
अम्लिकावटकः,
पुं,
(अम्लिकाया वटकः ।) अम्लिकांस्वेदयित्वा जलेन सह मर्दयित्वा तत्सं स्कृतजलेमग्नवटकः अम्लवडा इति भाषा अस्य गुणाः ।रुच्यग्निकारित्वं वटकगुणतुल्यगुणत्वञ्च इतिभावप्रकाशः
(“अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् ।तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः ।अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः ।वटकस्य गुणैः पूर्व्वैरेतेऽपि समन्विताः”
)