| YouTube Channel

अम्लपञ्चफलं (amlapaJcaphalaM)

 
शब्दकल्पद्रुमः
Sanskrit
अम्लपञ्चफलं, क्ली अम्लरसयुक्तपञ्चप्रकारफलं ।तद्यथा कोलं दाडिमं वृक्षाम्लं ३चुक्रिका अम्लवेतसं
मतान्तरे जम्बीरं १नारङ्गं अम्लवेतसं तिन्तिडीकं वीजपूरं ।इति राजनिर्घण्टः
(“कोलञ्च दाडिमञ्चैव वृक्षाम्लं चुक्रिका तथा ।अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम्”
“जम्बीरं नागरङ्गञ्च तथाम्लवेतसं पुनः ।तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतम्”
)