| YouTube Channel

अम्लः (amlaH)

 
Apte
English
अम्लः [amlḥ], Sourness.
Apte Hindi
Hindi
अम्लः
पुं*
- अम्+क्ल्+अच्
"खटास, तीखापन, प्रकार के रसों में से एक"
अम्लः
पुं*
- अम्+क्ल्+अच्
सिरका
अम्लः
पुं*
- अम्+क्ल्+अच्
"नोनिया साग, इमली"
अम्लः
पुं*
- अम्+क्ल्+अच्
नीबू का वृक्ष
अम्लः
पुं*
- अम्+क्ल्+अच्
उद्वगम
E Bharati Sampat
Sanskrit
(पुं) अम(गत्यादौ)+क्लः। बाहु० १.षड्रसेषु रसभेदः, आम्लः, शुक्तः। ‘अम्लस्तु पाचनः शुक्तः’ हैमः। ‘कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टाः’ गीता १७.९। २.निम्बवृक्षः। (न) ३.तक्रम् ४.जम्बीरम् (वि) ५.आम्लरसयुक्तः। ‘तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु’ अमरः।
(पुं) अम(गत्यादौ)+क्लः। बाहु० १.षड्रसेषु रसभेदः, आम्लः, शुक्तः। ‘अम्लस्तु पाचनः शुक्तः’ हैमः। ‘कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टाः’ गीता १७.९। २.निम्बवृक्षः।(पुं)+कन्+टाप् ‘अजाद्यतष्टाप्’ ४.१.४। इण्(गतौ)+घः। ‘पुंसि संज्ञायां घः प्रायेण’ ३.३.११८। ।अय(गतौ)+असुन् ‘सर्वधातुभ्योऽसुन्’ उ०४.१८८। रसाः पुंसि तद्वत्सु षडमी त्रिषु’ अमरः।
(पुं.) अम (गत्यादौ) + क्लः बाहु० १. षड्रसेषु अन्यतमः, आम्लः २. निम्बवृक्षः (न.) १. तक्रम् ‘कट्वम्ललवणात्युष्णतीक्षणरूक्षविदाहिनः आहारा राजसस्येष्टाः’ - गीता० १७.१ २. जम्बीरम् “तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु” - अमरः
Wordnet
Sanskrit
Synonyms:
अम्लः, शुक्तः
noun
जले मिश्रणयोग्या तादृशः द्रवः यः लिटमसकर्गजं रक्तयति लवणं निर्माति।
"अम्लस्य प्रयोगः सावधानतया करणीयः।"
शब्दकल्पद्रुमः
Sanskrit
अम्लः,
पुं,
(अम + क्ल ।) षड्रसमध्ये रसविशेषः ।टक इति भाषा तोयाग्निगुणबाहुल्यादम्लः ।इति सुश्रुतः अस्य गुणाः शाकवद्दोषकारित्वं ।हृद्यत्वं रुच्यग्निरक्तमांसकारित्वं शीतलत्वं ।वायुनाशित्वं स्निग्धोष्णत्वं कटुरसतोऽधिकोष्ण-वीर्य्यत्वं जिह्वोद्वेगकारित्वञ्च इति राजवल्लभः
अस्य दन्तोद्वेगकारित्वगुणोऽप्यस्ति अपि ।प्रीत्यग्निपटुताकारित्वं प्रपाचनत्वं इति राज-निर्घण्टः
*
तदतिशयभक्षणगुणाः पाचकत्वं ।पित्तश्लेष्मवान्तिक्लेदकारित्वं लघुत्वं उष्णत्वं ।वहिःशीतत्वं वायुनाशित्वञ्च इति राजवल्लभः
भ्रान्तितुष्टिकफपाण्डुदोषकार्श्यकासकारित्वं इतिराजनिर्घण्टः
तद्वति त्रि इत्यमरः
*
अम्लवेतसः इति राजनिर्घण्टः
(यदाह वा-भटः
“अम्लः क्षालयते मुखम् ।हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनःअम्लोऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः
उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ।करोति कफपित्तास्रं मूढवातानुलोमनम्
सोऽत्यभ्यस्तस्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमं ।कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्”
हारीतेन यदुक्तं तद्यथा, --“जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी, बीभत्सं वा जनयति तथा वातरोगापहारी ।कण्डूकुष्ठक्षतरुजकरै लोलितः शोफिने स्या-दम्लः प्रोक्तः पवनशमनोऽसृक्प्रकोपं तनोति”
सुश्रुतश्चाह
“अम्लो जरणः पाचनः पवननिग्रहणो-ऽनुलोमनः कोष्ठ-विदाही वहिःशीतः क्लेदनः प्रा-यशोहृद्यश्चेति सएवंगुणोप्येक एवात्यर्थमुपसेव्य-मानो दन्तहर्ष-नयन-सम्मीलन-रोमसंवेजनकफ-विलयन-शरीरशैथिल्यान्यापादयति तथा क्षता-भिहत-दग्ध-दष्ट-भग्न-रुग्न-शून-प्रच्युतावमूत्रित-वि-सर्पित-छिन्न भिन्न-विद्धोत्पिष्टादीनि पाचयत्या-ग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्चेति”
“अम्लोरसो भक्तं रोचयति, अग्निं दीपयति, देहंवृंहयति, जर्ज्जरयति, मनो बोधयति, इन्द्रियाणिदृढीकरोति, बलं बर्द्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यं संस्रावयति, भुक्तमपकर्ष-यति, क्लेदं जनयति, प्रीणयति लघुरुष्णः स्नि-ग्धश्च
सएवंगुणोऽप्येकएवात्यर्थमुपयुज्यमानोदन्तान् हर्षयति, तर्पयति, संमीलयति अक्षिणी, संवीजयति लोमानि, कफं विलापयति, पित्त-मभिवर्द्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीण-क्षत-कृशदुर्ब्बलानांश्वयथुमापादयति अपि क्षताभिहत-दष्ट-दग्ध-भग्न-शून -- च्युतावमूत्रित-परिसर्पित-मर्द्दित-च्छिन्न-विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्परिदहति कण्ठमुरोहृदयञ्च”
इति चरकः
)