अम्बुवाची (ambuvAcI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English अम्बुवाची ambuvAcI four days in ASADha
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishE Bharati Sampat
Sanskrit(स्त्री) अम्बु अम्बुवर्षणं वाचयति सूचयति । अम्बु+वच(परिभाषणे)+णिच्+अण् ।ऋतुमती पृथिवी, आर्द्राद्यपादस्थरविकालिकभूमिः। ‘रजोयुक्क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ’ -ज्यो०।
शब्दकल्पद्रुमः
Sanskritअम्बुवाची, (अम्बु तद्वर्षणं वाचयति सूचयति, वच् + णिच् + अण्, उपपदसमासः, ङीप् ।) ऋतु-मती पृथ्वी । यथा, --“यद्वारे यत्काले मिथुनसंक्रमणं भूतं तद्वाराभ्यन्तरेतावत्कालावधि विंशत्यादिदण्डाधिकदिनत्रयमम्बु-वाची । तत्राध्ययनं वीजवपनं न कार्य्यं । सर्प-भयोपशमनाय दुग्धं पेयं” । इति कृत्यतत्त्वं ॥
* ॥
अपिच । ज्योतिषे ।“रजोयुक् क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ ।तस्यां पाठो वीजवापो नाहिभीर्दुग्धपानतः ॥
मृगशिरसि निवृत्ते रौद्रपादेऽम्बुवाचोऋतुमति खलु पृथ्वी वर्ज्जयेत् त्रीण्यहानि ।यदि वपति कृषाणः क्षेत्रमासाद्य वीजंन भवति फलभागी शस्यचाण्डालपाकः” ॥
रजोयुक् क्ष्मा ऋतुमती पृथ्वी । मत्स्यसूक्ते ।“धरण्यामृतुमत्याञ्च भूमिकम्पे तथैव च ।अन्तरागमने चैव विद्यां नैव पठेद्बुधः” ॥
ज्योतिषे ।“यस्मिन् वारे सहस्रांशुर्यत्काले भिथुनं व्रजेत् ।अम्बुवाची भवेन्नित्यं पुनस्तत्कालवारयोः” ॥
इदन्तु प्रायिकं । इति तित्यादितत्त्वं ॥
* ॥
अन्यच्च ।“यदार्द्रर्क्षं समादाय भानोर्म्मन्मथगामिता ।पुनस्तत्स्थेनमादाय यजनं त्रिदिनं त्यजेत् ॥
काम्यनैमित्तिकञ्चैव यात्रां मन्त्रक्रियान्तथा ।ऋतुमत्यां न कुर्व्वीत पूर्व्वसङ्कल्पितादृते ॥
न कुर्य्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि ।वीजानां वपनञ्चैव चतुर्व्विंशतियामकं ॥
प्रमादाद्वपनं कृत्वा गावस्तत्र प्रचारयेत् ।कृच्छ्रं कुर्य्यात् तत्क्षणाच्च खननात्तिलकाञ्चनं” ॥
इति मत्स्यसूक्ते महातन्त्रे ५८ पटलः ॥
* ॥
अपरञ्च ।“रवौ रुद्राद्यपादस्थे भूमेः संजायते रजः ।तस्माद्दिनत्रयं यावत् वीजवापं परित्यजेत् ॥
चत्वारिंशल्लिप्तिकषड्भागयुतो रविर्यदा भवति ।तत्राम्बुवाची ज्ञेया शिवर्क्षपादस्थितो यावत् ॥
दिग्भागशून्यलिप्तो गणितेन भवति रविर्यदा साप्तः ।स भवति निर्गुणकालो द्वितीयपादाश्रयाद्रौद्रे” ॥
“न स्वाध्यायं वषट्कारं न देवपितृतर्पणं ।हलानां वाहनञ्चैव वीजानां वपनं तथा” ॥
इति राजमार्त्तण्डः ॥
* ॥
अत्र पाकनिषेधोयथा, --“यतिनो व्रतिनश्चैव विधवा च द्विजस्तथा ।अम्बुवाचीदिने चैव पाकं कृत्वा न भक्षयेत् ॥
स्वपाकं परपाकं वा अम्बुवाचीदिने तथा ।भक्षणं नैव कर्त्तव्यं चाण्डालान्नसमं स्मृतं” ॥
इति संवत्सरप्रदीपे विष्णुरहस्यं ॥
वाचस्पत्यम्
Sanskritअम्बुवाची स्त्री अम्बु तद्वर्षणं वाचयति सूचयति बच--णिच्--अण्उप० स० ङीप् । आर्द्राद्यपादस्थरविकालिकभूमौ “आर्द्राद्यादिविशाखान्तं रविचारेण वर्षति” इत्युक्तेस्तस्या वृष्टिसूचकत्वम् ।तत्काले हि भूमेरन्तर्गतरजोयोगैत्यतस्तस्यास्तथात्वम् ।यथोक्तम् “रजोयुक्क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ”ज्योति० । मिथुनराशिर्हि मृगशिरःशेषार्द्धार्द्रापादचतुष्कपुनर्वसुपादत्रयात्मकः । तत्र मृगशिरसि भुक्ते यदा आ-र्द्रायाः प्रथमप्रादोपभोगार्थंरविर्गच्छति तदा पृथ्वी ऋतुमतीभवति तच्चमिथुने ६ । ४० चत्वारिंशत्कलाधिकषडंशा-नतीत्य आर्द्राद्यपादावधि यावत्तिष्ठति तावत् । यथोक्तंराजमा० । “रवौ रौद्राद्यपादस्थे भूमेः संजायतेरजः”इत्युपक्रम्य । “चत्वारिंशल्लिप्तिक षड्भागयुतोरविर्यदा भवति ।तत्राम्बुवाची ज्ञेयाशिवर्क्षपादे स्थितो यावत् । दिग्भागशून्यलिप्तोगणितेन भवति रविर्यदा साप्त” इति । तत्र चवर्ज्र्यानि “न स्वाध्यायं वषट्कारं न देवपितृतर्पणम् ॥
हलानां वाहनञ्चैव वीजानां वपनं तथा” राजमा० ।“तस्यां पाठोवीजवापोनाहिभीर्दुग्वपानतः” ज्यो० । यदार्द्रर्क्षं समादाय भानोर्मन्मथगामिता । पुनस्तत्स्थेनमा-दाय यजनं त्रिदिनं त्यजेत् । काम्यं नैमित्तिकं चैवयात्रां मन्त्रक्रियां तथा । ऋतुमत्यां न कुर्व्वीत पूर्व्वसङ्कल्पिता-दृते । न कुर्य्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि! ।मत्स्य सू० । “यतिनोव्रतिनश्चैव विधावा च द्विजस्तथा ।अम्बुवाचीदिने चैव पाकं कृत्वा न भक्षयेत् । स्वपाकं पर-पाकं वा अम्बुवाचीदिने तथा । भक्षणं नैव कर्त्तव्यंचण्डालान्नमयं स्मृतम्” विष्णुरहस्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
