| YouTube Channel

अम्बरीषः (ambarISaH)

 
E Bharati Sampat
Sanskrit
(पुं) अम्ब्यते शब्द्यते अत्र अबि(शब्दे)+ईषन्, अरुडागमश्च निपा०। ‘अम्बरीषः’ उ०४.२९। १.विष्णुः। २.शिवः, खण्डपरशुः। ३.सूर्यः, भास्करः। ४.सूर्यवंशीयनाभागपुत्रः अम्बरीषनृपः। ‘नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः। अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्’ हरिवं०। ५.बालकः, किशोरः। ६.आम्रातकवृक्षः। ७.नरकप्रभेदः। ८.अनुतापः। (न) ९.भ्राष्ट्रः, भर्जनपात्रम् १०.रणम्, युद्धम् ‘अम्बरीषं रणे भ्राष्ट्रेऽप्यम्बरीषो नृपान्तरे मार्तण्डे खण्डपरशावाम्रातककिशोरयोः’ विश्वः। ‘अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे नरकस्य प्रभेदे किशोरे भास्करेऽपि च’ मेदिनी
Wordnet
Sanskrit
Synonyms:
अम्बरीषः
noun
नृपनामविशेषः, अयोध्याधिपतिरामस्य पूर्वजः यः सूर्यवंशीयप्रशुश्रुकस्य पुत्रः आसीत्।
"अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्।"
Synonyms:
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः
noun
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
"वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति"।"
Synonyms:
अश्वशावः, अश्वशावकः, किशोरः, घोटकवत्सः, अम्बरीषः
noun
अश्वस्य शिशुः पुमान्।
"अश्वी अश्वशावकाय वत्सलयति।"
शब्दकल्पद्रुमः
Sanskrit
अम्बरीषः,
पुं,
(अम्ब्यते पच्यते अत्र, निपातनात्साधुः ।) विष्णुः शिवः इति त्रिकाण्डशेषः
किशोरः भास्करः नृपभेदः तु सूर्य्य-वंशीयनाभागराजपुत्त्रः ।(“भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।नाभागस्तु श्रुतस्यासीत् पुत्त्रः परमधार्मिकः
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्”
इति हरिवंशे ।) नरकभेदः
आम्रातकवृक्षः ।अनुतापः इति मेदिनी