| YouTube Channel

अमृताहरणः (amRtAharaNaH)

 
Apte Hindi
Hindi
अमृताहरणः
पुं*
अमृत-आहरणः -
गरुड़ जिसने एक बार अमृत चुराया था
E Bharati Sampat
Sanskrit
(पुं) अमृतम् आहरति मातृदास्यापनयनार्थं स्वर्गात् भूलोकं नयति अमृत+आ+हृ+ल्युट् गरुडः। हारा०। ‘श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा ततो दास्यात् विप्रमोक्षो भविता तव खेचर इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्’ महाभा०१प०।
Wordnet
Sanskrit
Synonyms:
गरुडः, गरुत्मान्, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, महावीरः, पक्षिसिंहः, उरगाशनः, शाल्मली, हरिवाहनः, अमृताहरणः, नागाशनः, शाल्मलिस्थः, खगेन्द्रः, भुजगान्तकः, तरक्षी, तार्क्ष्यनायकः
noun
पुराणेषु वर्णितं भगवतः विष्णोः वाहनम्।
"गरुडः भगवतः विष्णोः परमः भक्तः अस्ति।"
Synonyms:
गरुडः, गरुत्मान्, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, महावीरः, पक्षिसिंहः, उरगाशनः, शाल्मली, परिवाहनः, अमृताहरणः, नागाशनः, शाल्मलीस्थः, खगेन्द्रः, भुजगान्तकः, तरस्वी, तार्क्ष्यनायकः
noun
खगविशेषः बृहत्खगः यः खगानां नृपः इति मन्यते।
"अस्य वृक्षस्य अस्यां शाखायां गरुडः स्थितः।"
शब्दकल्पद्रुमः
Sanskrit
अमृताहरणः,
पुं,
(अमृतमाहरति, मातृदास्याप-नयनार्थं स्वर्गात् भूलोकं नयति, + हृ +कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः ।इति हारावली
(“पुरा किल गरुडो मातु-र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान्विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्यस्वर्गादमृतं नागकुलाय दातुमाहृतवान्” इतिपौराणिकी कथा महाभारतस्यादिपर्ब्बणि ।“श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा ।ततो दास्याद्विप्रमोक्षो भविता तव खेचर !
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं
…स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके ।परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।… …अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान्
…एवं तदमृतं तेन हृतमाहृतमेव ।द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना”
)