| YouTube Channel

अमृताहरण (amRtAharaNa)

 
शब्दसागरः
English
अमृताहरण
m.
(-णः) A name of GARUDA, the bird of VISHNU.
E.
अमृत, हृ
to convey, with आङ् prefixed, and ल्युट् affix
GARŪDA having
upon one occasion stolen the Amrita.
Yates
English
अमृता_हरण (णः) 1.
m.
Garuda.
Spoken Sanskrit
English
अमृताहरण amRtAharaNa
m.
nectar-stealer
Wilson
English
अमृताहरण
m.
(-णः) A name of GARUḌA, the bird of VIṢṆU.
E.
अमृत, हृ to convey, with आङ् prefixed, and ल्युट् affix
GARUḌA
having upon one occasion stolen the Amṛta.
Monier Williams Cologne
English
अमृताहरण
m.
‘nectar-stealer’,
N.
of Garuḍa
अमृताहरण
n.
N.
of a Pariśiṣṭa work of the
SV.
Apte Hindi
Hindi
अमृताहरणः
पुं*
अमृत-आहरणः -
गरुड़ जिसने एक बार अमृत चुराया था
L R Vaidya
English
amfta-AharaRa {% m. %} a name of Garuḍa who once stole अमृत. (See Bh.i.33.)
Aufrecht Catalogus Catalogorum
English
अमृताहरण vaid. NW. 26. 32. P. 7.
--or Sarpabala, a Pariśiṣṭa of the Sv. Oxf. 378^a.
Oudh III, 6. Peters. 2, 180.
अमृताहरण a Pariśiṣṭa of the Sv. Peters. 4, 1. Stein 3.
अमृताहरण a Pariśiṣṭa of the Sv. Cs. 609. Ulwar 263.
Extr. 73.
शब्दकल्पद्रुमः
Sanskrit
अमृताहरणः,
पुं,
(अमृतमाहरति, मातृदास्याप-नयनार्थं स्वर्गात् भूलोकं नयति, + हृ +कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः ।इति हारावली
(“पुरा किल गरुडो मातु-र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान्विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्यस्वर्गादमृतं नागकुलाय दातुमाहृतवान्” इतिपौराणिकी कथा महाभारतस्यादिपर्ब्बणि ।“श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा ।ततो दास्याद्विप्रमोक्षो भविता तव खेचर !
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं
…स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके ।परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।… …अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान्
…एवं तदमृतं तेन हृतमाहृतमेव ।द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना”
)
वाचस्पत्यम्
Sanskrit
अमृताहरण
पु०
अमृतमाहरति मातृदास्यनिवारणार्थंस्वर्गात् भूलोकं नयति + हृ--ल्युट् गरुडे तत्-कथा भा० आदि प० ३३ अ० “तान् कृत्वापतगश्रेष्ठः सर्व्वानुत्क्रान्तजीवितान् अतिक्रान्तोऽ-मृतस्यार्थे सर्व्वतोऽग्निमपश्यत
आवृण्वानं महाज्ज्वाल-मर्चिर्भिः सर्वतोऽम्बरे दहन्तमिव तीक्ष्णांशुं चण्डवायुस-मीरितम्
ततो नवत्या नवतीर्म्मुखानां कृत्वा महात्मागरुडस्तरस्वी नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्यपुनर्ज्जवेन
ज्वलन्तमग्निं तममित्रतापनः समास्तरत् पत्र-रथो नदोभिः ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्नि-मभिप्रशाम्य
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।प्रविवेश बलात् पक्षी वारिवेग इवार्णवम्
चक्रं क्षुरपर्य्य-न्तमपश्यदमृतान्तिके परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्
ज्ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् घोर-रूपं तमत्यर्थं यन्त्रं देवैः सुनिर्मितम्
तस्यान्तरं दृष्ट्वैवपर्य्यवर्त्तत खेचरः आरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेनह
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती विद्युज्जिह्वौमहावोर्य्यौ दीप्तास्यौ दीप्तलोचनौ
चक्षुर्विषौ महाघोरौनित्यं क्रुद्धौ तरस्विनौ रक्षार्थमेवामृतस्य ददर्श भुजगो-त्तमौ
सदा संरक्तनयनौ सदा चानिमिषेक्षणौ बयोरे-कोऽपि यं पश्येत् तूर्णं भस्मसाद्भवेत्
तयोश्चक्षूंषि रजसासुपर्णः सहसाऽऽवृणोत् ताभ्यामदृष्टरूपोऽसौ सर्वतःसमताडयत्
तयोरङ्गे समाक्रम्य वैनतयोऽन्तरीक्षगः ।अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतंतत्र वैनतेयस्ततो बली उत्पपात जवेनैव यन्त्रमुन्मथ्यवीर्य्यवान्
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः ।अगच्छदपरिश्रान्त आवार्य्यार्कप्रभां ततः”
तृच् अमृता-हर्त्ता तत्रैव “काश्यपेयोऽमृताहर्त्ता” ध्वजपूजामन्त्रः