| YouTube Channel

अमृतस्रवा (amRtasravA)

 
Monier Williams Cologne
English
अ-मृत—स्रवा
f.
N.
of a plant,
L.
E Bharati Sampat
Sanskrit
(स्त्री) अमृतस्य स्रवा अमृत+स्रु+अप्, टाप् रुदन्तीलता, घनवल्ली ‘उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी’ राजनि०।
शब्दकल्पद्रुमः
Sanskrit
अमृतस्रवा,
स्त्री,
(स्रवति इति स्रु + अप् स्त्रियांटाप् अमृतस्य स्रवा षष्ठीतत्पुरुषः ।) रुदन्ती-वृक्षः लताविशेषः तत्पर्य्यायः वृक्षारुहा२ उपवल्लिका घनवल्ली सितलता ।अस्या गुणाः पथ्यत्वं ईषत्तिक्तत्वं रसायनत्वं ।व्रणनाशित्वं विषकुष्ठामकामलाश्वयथुजयकारि-त्वञ्च इति राजनिर्घण्टः
(“उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी ।व्रणघ्नी विषकुष्ठामं कामलां श्वयथुं जयेत्”
इति राजनिर्घण्टः ।)
वाचस्पत्यम्
Sanskrit
अमृतस्रवा स्त्री० अमृतमिव स्रवति स्रु--पचाद्यच् रुद-न्तीलतायाम् भावे अप् त० अमृतनिष्यन्दे
पु०