| YouTube Channel

अमृतवपुस् (amRtavapus)

 
Monier Williams Cologne
English
अ-मृत—वपुस्
m.
‘of immortal form’,
N.
of Viṣṇu,
MBh.
xiii
of
Śiva.
L R Vaidya
English
amfta-vapus {% m. %} the moon.
Mahabharata
English
Amṛtavapus = Vishṇu (1000 names).
वाचस्पत्यम्
Sanskrit
अमृतवपुस् अमृतेनाप्यायितं वपुरस्य चन्द्रे हि कृष्ण-पक्षे वह्न्यादिभिः कलानामेकैकशः भक्षणेऽपि पुनः यज्ञशि-ष्टरूपामृतेनाप्याय्यते यथोक्तं कालमाधषीये सोमोत्पत्ति-वाक्येन “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः विश्वेदेवास्तृतीयान्तु चतुर्थां सलिलाधिपः पञ्चमीं तु वषट्कारःषष्ठीं पिबति वासवः सप्तनीमृषयोदिव्या अष्टमीमजएक-पात् नवमीं कृष्णपक्षस्य यमः प्राश्नातिवै कलाम् दशमींपिबते वायुः पिबत्येकादशीमुमा द्वादशीं पितरः सर्वेसमं प्राश्नन्ति भागशः त्रयोदशीं धनाध्यक्षः कुवेरःपिबते कलाम् चतुर्द्दशीं पशुपतिः पञ्चदशीं प्रजापतिः ।निष्पीतश्च कलाशेषश्चन्द्रमा प्रकाशते कला षोडशिका-या तु सा त्वपो विशते तदा अमायां तु सदा सोमओषधोः प्रतिपद्यते तमोषधिगतं गावः पिबन्त्य प्सुगतञ्चयत् तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्विजातिभिः हुत-मग्निषु यज्ञेषु पुनराप्यायते शशी दिने दिने कलावृद्धिःपौर्णमास्यां तु पूर्णता” इति यद्यपि ज्योतिषे कृष्णपक्षेसूर्य्यमण्डले प्रवेश एव उक्तस्तथापि तत्तद्दिवसे चन्द्रकला-भक्षणवत् वह्न्यादीनां तृप्तिरित्येतत्परत्वं सोमोत्पत्तिवाक्यस्यदेवानाम् अस्मदादीनामिव भोजनस्यासिद्धेः तृप्तिमात्राधायक-त्वेन तद्भोग्यत्वम् “न वै देवा अन्नन्ति पिबन्ति एतर्दवामृतंदृष्ट्वा तृप्यन्ति” छा० उ० उक्तेस्तथावगम्यते इत्यविरोधः ।अनश्वरखरूपे विष्णौः “अमृताशोऽमृतवपुः” विष्णुस०