| YouTube Channel

अमृतभल्लातकी (amRtabhallAtakI)

 
वाचस्पत्यम्
Sanskrit
अमृतभल्लातकी स्त्री “सुपक्वभल्लातफलानि सम्यक् द्विघा विदार्य्याढकसम्मितानि विपाच्य तोयेन चतुर्गुणेन चतुर्थशेषेव्य-पनीय तेन
पुनः पचेत् क्षीरचतुर्गुणेन घृतांशयुक्तेन घनंयथा स्यात् सितोपलाः षोडशभिः पलैस्तु विमिश्रा सं-स्थाप्य दिनामि सप्त
ततः प्रयोज्याग्निबलेन मात्रां ज-येद् गुदोत्थानस्विलान् विकारान् कचान् सुनीलान् घन-कुञ्चिताग्रान् सुवर्ण्णदृष्टिं सुकुमारताञ्च
जवं हयानाञ्चमतङ्गजं बलं, स्वरं मयूरस्य हुताशदीप्तिम् स्त्रीवल्लभत्वलभते प्रजाञ्च नीरोगमब्दद्विशतानि चायुः
चान्नपानेपरिहार्य्यमस्ति चातपे चाध्वनि मैथुने प्रयोगकालेसकलाभयानां राजा ह्ययं सर्व्वरसायनानाम्
भल्लताकीशुद्धिरिह प्रागिष्टा चूर्ण्णगुण्डनात् घृताच्चतुर्गुणं क्षीरंघृतस्य प्रस्थ इष्यते” चक्रदत्तोक्ते घृतभेदे