| YouTube Channel

अमृततत्व (amRtatatva)

 
वाचस्पत्यम्
Sanskrit
अमृततत्व
न०
अमृतस्यामरणस्य भावः त्व मोक्षे “त्यागेनैके अमृतत्वमानशुः” श्रुतिः “कश्चिद्धीरः प्रत्यगात्मानमैक्षदा-वृत्तचक्षुरमृतत्वमिच्छन्” क० उ० “अमृतत्वममरणधर्म्मत्वम्भा० “अहिंसया भूतानाममृतत्वाय कल्पते” इति मनुः“आभूतसंप्लवस्थानममृतत्वं हि भाष्यते” इति विष्णु०
पु०
उक्ते महाकल्पावस्थायित्वे