| YouTube Channel

अमृतगभ (amRtagabha)

 
वाचस्पत्यम्
Sanskrit
अमृतगभ
पु०
अमृतं ब्रह्म गर्भेऽभ्यन्तरे यस्य जोवे तस्यब्रह्मात्मकत्वात् ब्रह्मणा चान्तर्यामितया तदन्तःस्थितत्वात्तथात्वम् “यो जीवोऽसि मृतो देवानाममृतगर्भोऽसिस्वप्न” अथ० ६, ४६, “स्वप्स्यन् स्वेन तदा सपन्नोभवतीति” श्रुतेः सुषुप्त्यवस्थायां सकलानर्थानवभासनेनतच्छून्यतया जीवस्य ब्रह्मरूपापत्त्या तथात्वम् अधिकंसुषुप्तिशब्दे दृश्यम् अमृतस्य मोक्षस्य गभे आधारः ब्रैह्मणि