| YouTube Channel

अमृतः (amRtaH)

 
Apte Hindi
Hindi
अमृतः
पुं*
- -
"देव, अमर, देवता"
अमृतः
पुं*
- -
देवों के वैद्य धन्वन्तरि
E Bharati Sampat
Sanskrit
(पुं) मृतं मरणं यस्य १.परमात्मा, विष्णुः। ‘अमृतः शाश्वतस्थाणुः’ वि०स०। २.धन्वन्तरिः। ३.शिवः। ४.देवता, सुरः। ५.अमृतयोगः, वारनक्षत्रयोगभेदः। ६.चन्द्रः। ७.आत्मा ‘महतः परमव्यक्तमव्यक्तादमृतः परः’ महाभा०। (न) मृतं मरणं यत्र ८.मोक्षः, मुक्तिः। ‘स श्रियै चामृताय च’ अमरः१.१। ९.स्वर्गः। १०.अम्बु, जलम् ११.क्षीरम् १२.यज्ञशेषद्रव्यम् ‘विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्’ मनुः३.२८५। १३.अयाचितम्, याचनां विना प्राप्ता भिक्षा ‘मृतं स्याद्याचितं भैक्ष्यममृतं स्यादयाचितम्’ मनुः४.५। १४.घृतम् ‘अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति’ माघः२.१०७। १५.अन्नम् १६.काञ्चनम्, सुवर्णम् १७.पारदः। १८.विषम् १९.जग्धिः, भोजनम् २०.खम्, आकाशम् २१.रसायनम् २२.न मृतं मरणं यस्मात् सुधा, पीयूषम् २३.मरणरहितः, जीवितः। ‘अमृते जारजः कुण्डः’ अमरः२.६.३६। २४.अमरत्वहेतुः। २५.मुक्तः, प्राप्तमोक्षः। २६.हृद्यः, सुन्दरः। ‘अमृतं यज्ञशेषाम्बुसुधामोक्षेष्वयाचिते अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे’ हैमः। २७.अविनाशी, नाशरहितः। ‘ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च’ गीता १४.२७। २८.मधुरः, स्वादुः। (स्त्री) अमृता २९.अमृतवल्ली ३०.वनमुद्गः। ३१.दूर्वा ३२.मद्यम्, मदिरा ३३.तुलसी ३४.गुडूची ३५.मागधी, पिप्पली ३६.पथ्या ३७.ज्योतिष्मतीलता ३८.आमलकी ३९.वाराहीकन्दः। ‘अमृता मागधीपथ्यागुडूच्यामलकीषु च’ मेदिनी ‘सोमान्नसुधासु चामृतम् पथ्यागुडूच्यामलकीष्वयं स्त्रियां देवेषु ना स्वाद्वविनाशिनोस्त्रिषु’ नानार्थर०। ४०.सूर्यकिरणभेदः। ४१.शरीरान्तःस्थः नाडीभेदः। ‘नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणात्’ मालती ५.२।
Wordnet
Sanskrit
Synonyms:
सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः
noun
देवताविशेषः
"पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]"
Synonyms:
धन्वन्तरिः, अमृतः
noun
आयुर्वेदस्य आचार्यः देवतानां वैद्यः।
"धन्वन्तरिः समुद्रमन्थनस्य काले समुद्रात् बहिः आगतवान्।"
Synonyms:
चन्द्रः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः, हरिः
noun
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
"अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अमृतः,
पुं,
(मृ + कर्त्तरि क्तः, नञ्समासः ।) धन्व-न्तरिः देवता इति मेदिनी वाराहीकन्दः ।वनमुद्गः इति राजनिर्घण्टः
सुन्दरः अति-हृद्यः इति भरतधृतव्याडिः
(आत्मा, यथामहाभारते, --“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः
महतः परमव्यक्तमव्यक्तादमृतः परः ।अमृतान्न परं किञ्चित् सा काष्ठा सा परा गतिः”
सूर्य्यः
सुरपतिरिन्द्रः
विष्णोः सहस्रनाममध्येपरिगणितो नामभेदः
) मरणरहिते त्रि ।यथा “अमृते जारजः कुण्डः” इत्यमरः