| YouTube Channel

अमूर्त्तः (amUrttaH)

 
शब्दकल्पद्रुमः
Sanskrit
अमूर्त्तः, त्रि, (मूर्च्छ + क्तः, नञ्समासः ।) मूर्त्त-भिन्नः मूर्त्तिरहितः यथा सुज्ञाना अमूर्त्त-त्वादिति वोपदेवः
न्यायमते आकाशं ।कालः दिक् आत्मा एषां सामान्यगुणाःसंख्या परिमितिः पृथक्त्वं संयोगः ४विभागः आकाशस्य विशेषगुणः शब्दः ।कालदिशोर्विशेषगुणो नास्ति आत्मनो विशेष-गुणाः बुद्धिः सुखं दुःखं इच्छा ४द्वेषः यत्नः भावनाख्यसंस्कारः धर्म्मः ८अधर्म्मः इति भाषापरिच्छेदः
(रूपहीनः ।आकृतिरहितः वायुः अन्तरीक्षञ्च यदुक्तं, --“सन्निवेश्यो नेत्रदृश्यो यस्य तन्मूर्त्तमुच्यते ।क्षित्यम्ब्बग्नित्रयं मूर्त्तममूर्त्तं त्वितरद्वयं”
इति ।“क्षितिर्जलं तथा तेजः पवनो मन एव ।परापरत्वमूर्त्तत्वक्रियायोगाश्रया अमी”
इति भाषापरिच्छेदः ।)