| YouTube Channel

अमावस्या (amAvasyA)

 
Apte
English
अमावस्या [amāvasyā] वास्या [vāsyā] वसी [vasī] वासी [vāsī], वास्या वसी वासी (also written अमा- मसी-मासी) [अमावस् -ण्यत्, अमा सह वसतः चन्द्रार्कौ अस्यां सा. अमावस्यर्दन्यतरस्याम्
P.
III.1.122 Sk.]
The day of new moon, when the sun and moon dwell together or are in conjunction
the 15th day of the dark half of every lunar month
सूर्याजन्द्रमसोः यः परः सन्निकर्षः सा$मावस्या Gobhila
अमावास्यायां दीक्षित्वा Ch.
Up.*
5.2.4.
A sacrifice offered at that time.
The sacrificial oblation.
Apte 1890
English
अमावस्या,
वास्या,
वसी,
वासी (also written अमा मसी-मासी) [ अमावस् -ण्यत्, अमा सह वसतः चंद्रार्कौ अस्यां सा P. III. 1. 122 Sk.] 1 The day of new moon, when the sun and moon dwell together or are in conjunction
the 15th day of the dark half of every lunar month
सूर्याचंद्रमसोः यः परः सन्निकर्षः साऽमावास्या Gobhila.
2 A sacrifice offered at that time.
3 The sacrificial oblation.
Monier Williams Cologne
English
अमा—वस्या
f.
=
-वास्या॑, q.v.,
Kāṭh.
Pāṇ.
iii, 1, 122.
Apte Hindi
Hindi
अमावस्या
स्त्री*
- "अमा+वस्+यत्, ण्यत् वा अमा+वस्+अप्, घञ् वा"
"चन्द्रमा का दिन, वह समय जब की सूर्य और चन्द्रमा दोनो संयुक्त रह्ते है, प्रत्येक चान्द्रमास के कृष्ण पक्ष का पन्द्रहवाँ दिन।"
L R Vaidya
English
amAva(vA)syA {% f. %} The day of the conjunction of the sun and the moon, the newmoon-day, the fifteenth day of the dark half of lunar month. (सूर्याचन्द्रमसोर्यः परः सन्निकर्षः साऽमावस्या.)
Wordnet
Sanskrit
Synonyms:
अमावस्या, अमावास्या, दर्शः, सूर्येन्दुसङ्गमः
noun
कृष्णपक्षान्ततिथिः, यदा चन्द्रमाः दृश्यते।
"अद्य अमवास्या अस्ति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः १५०
अमावास्यामावासी सा नष्टेन्दुः कुहुः कुहूः
-wordlist-
अमा (स्त्री), अमावसी (स्त्री), अमावस्या (स्त्री), दर्श (पुं), सूर्येन्दुसङ्गम (पुं), अमावास्या (स्त्री), अमावासी (स्त्री), कुहु (स्त्री), कुहू (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
अमावस्या,
स्त्री,
(अमा साहित्येन वसतश्चन्द्रार्कौयस्यां, अमा + वस + आधारे ण्यत् स्त्रियां टाप् ।)कृष्णपक्षान्ततिथिः सा तु चन्द्रमण्डलस्य पञ्च-दशकलाक्रियारूपा तत्क्रियोपलक्षितः कालोवा इति तिथ्यादितत्त्वं
सूर्य्याचन्द्रमसोर्यः परःसन्निकर्षः सामावस्या इति गोभिलः
परःसन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्यायेनएकराश्यवच्छेदेन सहावस्थानरूपः इति रघु-नन्दनः
तत्पर्य्यायः अमावास्या दर्शः ।सूर्य्येन्दुसङ्गमः इत्यमरः
पञ्चदशी इतिस्मृतिः
अमावसी अमावासी इतिशब्दरत्नावली
अमामसी अमामासी ।इत्यमरटीकायां रमानाथः
सा दृष्टेन्दुकलासिनीवाली १० नष्टेन्दुकला कुहूः ११ इत्य-मरः
तद्व्यवस्थादि यथा अथामावस्या सा चप्रतिपद्युता ग्राह्या युग्मात् वराहपुराणेचाण्डालशपथे ।“षष्ठ्यष्टम्यप्यमावास्या उभे पक्षे चतुर्द्दशी ।अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः”
अतोऽत्र स्नानमावश्यकं अतोऽत्र जीवत्पितृके-णापि स्नातव्यम् ।“अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनं ।न जीवत्पितृकः कुर्य्यात् कृते पितृहा भवेत्”
इति वचनं रागप्राप्तस्नाननिषेधकं ।“भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः ।तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके तु”
इति त्रयोदशीप्रकरणोक्तवचनाच्च
*
पैठिनसिः “न पर्ब्बसु तैलं क्षौरं मांसमभ्युपे-यात् नामावास्यायां हरितमपि छिन्द्यात्” ।इति
*
“पुष्ये तु जन्मनक्षत्रे व्यतीपाते वैधृतौ ।अमायाञ्च नदीस्नानं पुनात्यासप्तमं कुलं”
अत्र दहत्याजन्मदुष्कृतमिति ज्योतिषे पाठः
*
व्यासः ।“अमावास्यां भवेद्वारो यदि भूमिसुतस्य ।गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी”
“सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् ।गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम्”
सिनीवाली चतुर्द्दशीयुक्तामावास्या व्यस्तापिप्रशस्ता एवमन्यत्रापि वारविशिष्टविधौ युग्मा-दरः निरवकाशत्वेन संशयायोगात् एतच्च मौन-मरुणोदयकालमारभ्य स्नानपर्य्यन्तं तु स्नान-कालमात्रे ।तत्र, “उच्चारें मेथुने चैव प्रस्रावे दन्तधावने ।स्नाने भोजनकाले षट्सु मौनं समाचरेत्”
इति स्कान्देन तस्य सामान्यतः प्राप्तत्वात् उच्चारेपुरीषोत्सर्गे
*
स्मृतिः ।“करतोयाजलं प्राप्य यदि सोमयुता कुहूः ।अरुणोदयवेलायां सूर्य्यग्रहशतैः समा”
स्नानमन्त्रः ।“करतोये सदानीरे सरित्श्रेष्ठे सुविश्रुते ।पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे”
पौण्ड्रान् देशविशेषान्
*
मरीचिः ।“मासे नभस्यमावास्या तस्यां दर्भचयो मतः ।अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः”
अत्र ।“दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः ।अयातयामान्येतानि नियोज्यानि पुनः पुनः”
इति गृह्यपरिशिष्टवचनेनैव सिद्धौ श्रावणा-मावास्याया उपादानं ।“वार्षिकांश्चतुरो मासान्नाहरेत् कुशमृत्तिकाः ।आददीत त्वभावेऽपि सद्यो यस्योपयोजनं”
इति संवत्सरप्रदीपधृतशिवरहस्यीयस्यापवादक-मिति
विद्याकरधृतं ।“सङ्ग्रहाद्वत्सरं यावत् शुद्धिः स्यादिध्मवर्हिषां ।ततः परं गृह्णीयात् जपादौ यज्ञकर्म्मणि”
*
संवत्सरप्रदीपे ।“अमावास्यान्तु कन्यार्के तीर्थप्राप्तौ तथा नृप ।कृत्वा श्राद्धं विधानेन दद्यात् षोडशपिण्डकं”
तत्प्रमाणप्रयोगौ षोडशीशब्दे द्रष्टव्यौ
*
अमावास्यायामपि मलमासे श्राद्धाभावमाहकौथुमिः ।“संवत्सरातिरेको वै मासो यः स्यात्त्रयोदशः ।तस्मिंस्त्रयोदशे श्राद्धं कुर्य्यादिन्दुसंक्षये”
सम्बत्सरप्रदीपे ।“एकराशिस्थिते सूर्य्ये यदि दर्शद्वयं भवेत् ।दर्शश्राद्धं तदादौ स्यान्न परत्र मलिम्लुचे”
यत्तु ।“जातकर्म्मणि यत् श्राद्धं दर्शश्राद्धं तथैव ।मलमासेऽपि तत्कार्य्यं व्यासस्य वचनं यथा”
इति व्यासवचनं तत्पिण्डपितृयज्ञाख्यश्राद्धपरं
*
अमावास्याश्राद्धकालमाह छन्दोगपरिशिष्टं ।“पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ।वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः”
पिण्डानां पितॄणां अन्वाहार्य्यं श्राद्धं मासैकतृप्ति-जनकं यत्तत्तथा तथा मनुः ।“पिण्डानां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः” ।राजनि चन्द्रे शस्यत इत्यनेन क्वचिच्चन्द्रक्षया-भावेऽपि अमावास्याश्राद्धं सूचितं एतादृग्-व्युत्पत्तेः साग्निनिरग्निसाधारणत्वात् वक्ष्यमाण-कात्यायनोक्तरीत्या क्षीणास्तम्भितावर्द्धमानाभेदःसाधारणः
*
यत्तु, --“पितृयज्ञन्तु निर्व्वर्त्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकं”
इति मनुवचनं तत्साग्निः पिण्डपितृयज्ञं निर्व्वर्त्यमासानुमासिकं प्रतिमासिकं श्राद्धं कुर्व्वीते-तिक्रमविधायकं अत्रानुशब्दस्य वीप्सार्थकत्वं ।तथा ।“लक्षणवीप्सेत्थम्भ्रतेष्वभिर्भागे परिप्रती ।अनुरेषु सहार्थे हीने उपश्च कथ्यते”
चन्द्रक्षयेऽमावास्यायां तु कात्यायनोक्तक्षयेतथात्वे वर्द्धमानादौ प्रतिमासानुपपत्तेः एवमेवश्राद्धविवेकः अतएव तत्रैवामावास्याव्यतिरिक्त-कृष्णपक्षविहितपार्ब्बणश्राद्धे ययास्तमिति वच-नात् व्यवस्थेत्युक्तं तत्र साग्निकर्त्तव्यत्वाविशेषिता-मावास्याव्यतिरेकाभिधानात् क्षीणादिभेदेन व्य-वस्था साग्निनिरग्निसाधारणीत्यवगम्यते एवञ्चा-मावास्यायां मृताहनिमित्तक औरसक्षेत्रजपुत्त्र-कर्त्तव्यपार्ब्बणे क्षीयमाणादिना व्यवस्था किन्तुययास्तमित्यनेन एतद्विवृतं मलमासतत्त्वे
*
यत्तु दशममुहूर्त्तस्य मत्स्यपुराणोक्तापराह्णिकत्वेऽपिश्राद्धे तस्य त्यागः पिण्डपितृयज्ञार्थ एवेतिवासरतृतीयांशाभिधानं साग्निपरमेवेति परि-शिष्टप्रकाशोक्तं तन्न युक्तं पूर्व्वाह्णोवै देवानां मध्यंदिनं मनुष्याणां अपराह्णः पितॄणां इति श्रुत्यातन्मुहूर्त्तस्य मनुष्यकर्म्माङ्गत्वेन बोधनादेव श्राद्धेपरित्यागः एतच्छ्रुतिमूलकमेव वासरस्य तृती-यांश इत्युक्तं वासरस्य तृतीयांशे त्रिधा विभक्तस्यदिनस्य तृतीयभागे नातिसन्ध्यासमीपत इतिसन्ध्यासमीपैकमुहूर्त्त आपद्यपि वर्ज्जनीय इत्यर्थः ।तेन ।“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परं
सायाह्नस्त्रिमुहूर्त्रः स्यात् श्राद्धं तत्र कारयेत् ।राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु”
इति मत्स्यपुराणे निषिद्धमुहूर्त्तत्रये आपदि मुहूर्त्त-द्वयमभ्यनुज्ञातं अतिशब्दस्वरसात् “त्रिमुहूर्त्तापिकर्त्तव्या पूर्व्वा दर्शा बह्वृचैः” इति हारीत-वचनाच्च तेन पूर्व्वदिने मुहूर्त्तत्रयमात्रलाभे पर-दिने वासरस्य तृतीयांशालाभे पूर्व्वदिने एवश्राद्धं एतेन नातिसन्ध्यासमीपत इत्यनेन राक्षसी-वेलामात्रं निषिध्यत इति मैथिलमतमपास्तं ।सर्व्वकर्म्मसु स्नानदानादिष्वपि अनापदीत्यर्थः ।इति श्राद्धविवेकः
तेनाशक्तौ तस्यामपि तत्क-रणं अतएव पराशरः ।“दिवाकरकरैः पूतं दिवास्नानं प्रशस्यते ।अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्”
इति
*
दर्शद्वैधे कुत्र श्राद्धमित्याह छन्दोग-परिशिष्टे कात्यायनः ।“यदा चतुर्दृशीयामं तुरीयमनुपूरयेत् ।अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते”
चतुर्द्दशीयामं चतुर्द्दशीसम्बन्धिदिनयाममिति त-द्दिनस्यामावास्यासम्बन्धेऽपि चतुर्द्दशीनिर्द्देशो-ऽधिकेन व्यपदेशा भवन्तीति न्यायात् तेन यदाअमावास्याचतुर्द्दशीसम्बन्धिदिनस्य चतुर्थं प्रहरंकृत्स्नं किञ्चिन्न्यूनं वा अनुपूरयेत् अत्रानुपूरये-दित्यभिधानात् तुरीययामस्य पादोनदण्डद्वया-न्यूनप्रथममुहूर्त्तस्य बहुकालत्वं प्रतीयते एतेनप्रहरत्रयाभ्यन्तरे किञ्चिदधिकप्रहरत्रये वा चतु-र्द्दशी प्रतीयते ततश्चोभयवासरीयतृतीयांश-सम्बन्धिपञ्चधाविभक्तापराहूमुहूर्त्तयोर्मुहूर्त्तान्यून-दर्शलाभे द्वैधं त्वेकदिनमात्रे तल्लाभे तत्रपूर्व्वोक्तेन वासरस्य तृतीयांश इत्यनेनैव द्वैधा-नुदयात् अतो यद्दिने वासरतृतीयांशे तादृश-दर्शलाभस्तत्रैव श्राद्धं मुहूर्त्तोनतिथेस्तु कर्म्मा-नर्हत्वान्न द्वैधावसरः तथा भविष्ये ।“व्रतोपवासनियमे घटिकैका यदा भवेत् ।सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी”
इति अत्र प्रागुक्तजावालिवचनोक्ता मुहूर्त्ता-त्मिका घटिका ग्राह्या योग्यत्वात् त्वेकदण्डा-त्मिका वक्ष्यमाणरौहिणादिग्रहणे तथा दृष्ट-त्वाच्च ततश्च पूर्व्वोक्तद्वैधे तद्द्विवसीयचतुर्द्दश्य-पेक्षया परदिने अमावास्या क्षीयमाणा न्यूनका-लव्यापिनी तु पूर्व्वापरदिवसीययावच्चतुर्द्दश्य-पेक्षया अनुपस्थितेः एवं स्तम्भितावर्द्धमानयो-रपि तदैव पूर्व्वदर्श एव श्राद्धं स्वोक्तचन्द्र-क्षयानुरोधात् यदा त्रिंशद्द्वण्डात्मकदिवसे चतु-र्द्दश्यधिकचतुर्थयामपूरणे मुख्यापराह्णीयकिञ्चि-न्न्यूनमुहूर्त्तलाभस्तदापि तदैवेत्यनेन चन्द्रक्षयानु-रोधात् पूर्व्वदिने श्राद्धं तु मुख्यापराह्णीय-मुहूर्त्तलाभेऽपि परदिने अत्र चन्द्रक्षयश्चतुर्द्दश्य-ष्टमयामात् प्रभृति अमावास्यासप्तमयामपर्य्यन्त-मिति वक्ष्यते तदैवेत्येव श्रवणात्तिथिद्वैधे खण्ड-विशेषो नियम्यते कर्म्मणि खण्डान्तरव्युदासाय ।एवञ्च यत्र पूर्व्वापरदिने वासरतृतीयांशीयमु-ख्यापराह्णे मुहूर्त्तोनदर्शलाभस्तत्रापि पूर्व्वदिन एवश्राद्धं वासरतृतीयांशचन्द्रक्षयातिशब्दस्वरसात् ।त्रिमुहूर्त्तापीत्यनुरोधाच्च यत्र तु पूर्व्वदिने त्रि-मुहूर्त्तमात्रव्यापिन्यमावास्या परदिने तृतीयांश-मुहूर्त्तव्यापिनी सती क्षीयमाणा तत्र परदिनेचन्द्रक्षयाभावेऽपि मुख्यापराह्णलाभात् श्राद्धम् ।अन्यथा, --“यदा चतुर्दशीयामं तुरीयमनुपूरयेत्” ।इति विशेषाभिधानं व्यर्थं स्यात्
*
अथ “यत्र पूर्व्वाहे श्राद्धं तत्र यदहस्त्वेव चन्द्रमान दृश्येत ताममावास्यां कुर्व्वीत” इति गोभिल-विरोधः तथाविधचतुर्दशीयुक्तामावास्यायाःसिनीवालीत्वेन प्रातश्चन्द्रदर्शनात् तत्राह सएव ।“यदुक्तं यदहस्त्वेव दर्शनं नेति चन्द्रमाः ।तत्क्षयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि”
“यदहस्त्वेव चन्द्रमा दृश्येत ताममावास्यांकुर्व्वीत” इति यद्गोभिलसूत्रं तच्चन्द्रक्षयाभिप्रा-यिकम् अन्यथा गोभिलीयतादृशसूत्रान्तरेणसह पौनरुक्त्यापत्तेः तस्मात् प्रथमसूत्रं कुहूपरंतच्च वर्द्धमानापक्षे नियतं क्षीणास्तम्भितयोस्तुयथायोग्यमनुसरणीयम् एवञ्च “यदहस्त्वेवचन्द्रमा दृश्येत ताममावास्यां कुर्व्वीत” इतिश्रुतिरेतत्समानार्थकं श्रुत्यन्तरं वा तदपि वर्द्ध-मानादिपरं तु कात्यायनवचनात्तत्र क्षयलक्षणाकल्पतरुप्रभृतिभिरुक्तायुक्ता ।“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसि” ।इति विरोधात् क्षीण इति कात्यायनेन मयायत् क्षीणे राजनीत्युक्तं तदपि क्षयाभिप्रायकम् ।अथैवं दृश्यमानेऽप्येकदा इति यद्गोभिलस्य सूत्रा-न्तरं तद्व्यर्थम् “यदहस्त्वेव” इत्यादि द्वितीय-सूत्रप्राप्ततिथेः सिनीवालीत्वेनैव चन्द्रदर्शनप्राप्ते-रित्यत आह एव ।“यच्चोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया ।अमावास्यां प्रतीक्षेत तदन्ते वापि निर्व्वपेत्”
दृश्यमानेऽप्येकदेति यदुक्तं तच्चतुर्द्दश्यां श्राद्धायपूर्व्वसूत्रममावास्यापदोपादानाच्चन्द्रक्षये सत्यम-मावास्याविषयं इदं पुनरित्थम्भतचतुर्द्दशीविष-यमिति श्राद्धविवेकः तत् किममावास्यावच्चतु-र्द्दशीत्यत्राह अमावास्यां प्रतीक्षेत उभयतिथि-प्राप्तौ श्राद्धायामावास्या प्रतीक्षणीया यत्रपूर्व्वदिने दिवा सार्द्ध्वमुहूर्त्तमात्रे अमावास्या पर-दिने सार्द्ध्वदशममुहूर्त्तमात्रे तत्र चोभयदिनेश्राद्धयोग्यामावास्या प्राप्यते तत्र तदन्तचतुर्द्दश्यन्ते निर्व्वपेत् दद्यात्
*
अत्रैव विषयेसाग्निनिरग्न्योर्व्विशेषमाह कालमाधवीये जा-बालिः ।“अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्म्मता”
आदिशब्दादनुपनीतशूद्रयोर्ग्रहणं
*
क्षयमाहकात्यायनः ।“अष्टमेऽंशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः ।अमावास्याष्टमांशे ततः किल भवेदणुः”
चतुर्द्दश्यष्टमे यामे चन्द्रमाः क्षीण चतुर्थभागोन-कलावशिष्टो भवति “अत्रेन्दुराद्यप्रहरेऽवति-ष्ठते” इत्यादिस्वरसात् अमावास्याष्टमे यामेचाणुर्भवति पुनरुत्पद्यते किलेत्यागमवार्त्तायां तेनअमावास्यायाः सप्तमे यामे कृत्स्नक्षय इत्यव-गम्यते “ततश्चान्त्यकलावयवनाशोत्पत्तिरेव क्षयःसा सूक्ष्मतायां विनाशेऽप्यस्तीति” श्राद्धविवेकः
उत्पत्तिराद्यक्षणसम्बन्धः तेन बिनाशस्यानन्त-त्वेऽपि नातिव्याप्तिः
*
अत्र विशेषमाहसएव ।“आग्रहायण्यमावास्या तथा ज्यैष्ठस्य या भवेत् ।विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः”
आभ्यामिति ल्यब्लोपे पञ्चमी इमे प्राप्येत्यर्थः ।चन्द्रचारविदो ज्योतिर्व्विदः अत्र पौर्णमास्या-न्तमास इति परिशिष्टप्रकाशः
अत्र तीजंब्रह्मपुराणीयतिथिकृत्यं तथा श्राद्धमधिकृत्यब्रह्मपुराणं ।“पयोमूलफलैः शाकैः कृष्णपक्ष सर्व्वदा” ।अत्र कृष्णपक्षे चतुर्द्दशीव्यतिरिक्तायां यस्यां कस्या-ञ्चित् तिथौ श्राद्धविधानादमावास्यापि लभ्यतइति
*
को विशेषैत्यत्राह एव ।“अत्रेन्दुराद्ये प्रहरेऽवतिष्ठतेचतुर्थभागोनकलावशिष्टः ।तदन्त एव क्षयमेति कृत्स्न-मेवं ज्योतिश्चक्रविदो वदन्ति”
अत्र मासद्वये अमावास्यायां चतुर्थभागोनकला-वशिष्टः चतुर्थभागोना या कला तयावशिष्टःकलाभागत्रयमात्रः सन्नाद्ये प्रहरेऽवतिष्ठते अर्थात्चतुर्द्दश्यष्टमयामे क्षयारम्भ इति तदन्त एवअमावास्यान्तयाम एव क्षयं कृत्स्नमेति अन्य-त्रामावास्या सप्तमयाम इति विशेषः तेन मार्ग-शीर्षज्यैष्ठयोरुभयदिने चन्द्रक्षयलाभे यद्यपि यदाचतुर्द्देशीयाममिति वचनात् पूर्व्वदिने एव श्राद्धंप्राप्नोति तथापि तद्वचनं चन्द्रक्षयानुरोधमूल-मिति कृत्स्नक्षयानुरोधात् क्षीणायामपि पर-त्रापराह्णलाभे श्राद्धं अन्यथैतद्विशेषाभिधानं व्यर्थंस्यात्
*
अत्रापि विशेषान्तरमाह एव ।यस्मिन्नब्दे द्वादशैकश्च यव्यस्तस्मिंस्त्रृतीयया परि-दृश्यो नोपजायेत यव्यो मासः तृतीययामात्रया चतुर्थभागोनकलया परिदृश्यश्चन्द्रो नभवति किन्तु तदधिकन्यूनकलयेति तेन मल-मासयुताब्दे अन्यमासवदनयोरपि चतुर्द्दश्यन्तया-मादि दर्शसप्तमयामपर्य्यन्तं क्षय इति मलमास-युताब्दस्तु एकस्मान्मलमासादब्दद्वयानन्तराब्द-स्तृतीयेऽब्दे मलमासस्यावश्यम्भावादिति
*
चन्द्रक्षयानुरुद्धं क्षीणापक्षमुपसंहरति एव ।“एवं चारं चन्द्रमसो विदित्वाक्षीणे तस्मिन्नपराह्णे दद्यात्” ।एवं चारं गतिविशेषं
*
स्तम्भितायां व्यव-स्थामाह एव ।“सम्मिश्रा या चतुर्द्दश्या अमावास्याभवेत् क्वचित् ।खर्व्वितां तां विदुः केचिदुपेध्वमिति चापरे”
क्षीणायाः पूर्व्वमुक्तत्वात् वर्द्ध्वमानायाश्च वक्ष्य-माणत्वात् अस्य वचनस्य स्तम्भितापरत्वं खर्व्वितांनीचां पितृलोकप्रापणानर्हां केचित् यजुर्व्वेदिनः ।अपरे ऋग्वेदिनः तामेव उपेध्वमुपगच्छत श्राद्धा-येति शेषः उपेध्वमित्यत्र गताध्वामितिपाठेगतः प्राप्तः पितृलोकप्रापणाय अध्वा अनयेतिगताध्वा प्रशस्तेत्यर्थः “तस्माच्छन्दोगा उभया-नुरोधादिच्छात उभयादरं कुर्व्वन्ति” इति का-त्यायनस्वरसः
*
व्यक्तमाह लघुहारीतः ।“त्रिमुहूर्त्तापि कर्त्तव्या पूर्व्वा दर्शा बह्वृचैः ।कुहूरध्वर्य्युभिः कार्य्या यथेष्टं सामगीतिभिः”
अत्र त्रिमुहूर्त्तेत्युपादानात् स्तम्भितायांः पूर्व्वदिनेत्रिमुहूर्त्तमात्रलाभेऽपि बह्वृचानां श्राद्धं तुमुख्यापराह्णलाभादपि परदिने सामगानां तत्रा-प्यनियमः एतादृग्विषय एव उमयत्रापराह्णा-लाभेऽपीयं व्यवस्थेति श्राद्धविवेकः
मुख्या-पराह्णस्य एकदिनमात्रलाभेऽप्युभयदिनालाभात्
*
वर्द्ध्वमानायां व्यवस्थामाह कात्यायनः ।“वर्द्ध्वमानाममावास्यां लक्षयेदपरेऽहनि ।यामांस्त्रीनधिकान् वापि पितृयज्ञस्ततो भवेत्”
यामांस्त्रीनिति पूर्व्वदिवसीययामत्रयन्यूनचतुर्द्दश्य-पेक्षया अथैवं वासरतृतीयांशानुरोधेन श्राद्ध-विधानात् कथममावास्याश्राद्धे पर्युदस्तरात्र्यादी-तरकालपरिग्रहः सत्यं तिथिद्वैधे क्षीणादि-भेदेन खण्डविशेषपरिग्रहाय वासरतृतीयांशा-पेक्षा अन्यथोभयदिने वासरतृतीयांशाप्राप्तौश्राद्धलोपापत्तेः प्रागुक्तनिरग्न्यादेः कुहूर्म्मते-त्यस्य निर्व्विषयतापत्तेश्च अतः पर्य्युदस्तेतरकाल-स्यापि परिग्रहः यदा तु पूर्व्वापरखण्डयोरन्य-तरस्यैव परिग्रहस्तदा यथायोग्यं तत्रैव साया-ह्नमुहूर्त्तद्वयपर्य्युदस्तेतरकालकुतपादिमुहूर्त्तपञ्चक-रौहिणादिमुहूर्त्तचतुष्टयवासरतृतीयांशीयापरा-ह्णमुहूर्त्तद्वयकालाः यथाक्रममापत्सामान्यप्रशस्त-प्रशस्ततर-प्रशस्ततमत्वेन ज्ञेयाः एवमखण्डति-थावपि नातिसन्ध्यासमीपत इति पूर्व्वोक्तत्वात् ।“सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र कारयेत्” ।इति मत्स्यपुराणात् ।“रात्रौश्राद्धं कुर्ब्बीत राक्षसीकीर्त्तिता हि सा ।सन्ध्ययोरुभयोश्चैव सूर्य्ये चैवाचिरोदिते”
इति मनुवचनाभ्यां ।“ऊर्द्ध्वं मुहूर्त्तात् कुतपात् यन्मूहूर्त्तचतुष्टयं ।मुहूर्त्तपञ्चकं वापि स्वधाभवनमिष्यते”
इति मत्स्यपुराणान्मुहूर्त्तपञ्चकमित्यत्र कुतपादितिल्यब्लोपे पञ्चमी कुतपमारभ्येत्यर्थः ततस्तेनैव ।“अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये ।यदत्र दीयते जन्तोस्तदक्षयमुदाहृतं”
इत्युक्तं “पूर्व्वाह्णो वै देवानां मध्यं दिनं मनुष्याणांअपराह्णः पितॄणां” इति श्रुतिः वासरस्यतृतीयांश इति कात्यायनवचनं ।“सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र कारयेत्”इत्येषामेकवाक्यत्वात् वासरतृतीयांशीयापराह्ण-मुहूर्त्तद्वयस्य लाभः इति तिथ्यादितत्त्वं
वाचस्पत्यम्
Sanskrit
अमाव(वा)स्या अमा सह वसतश्चर्न्द्रार्कौ यस्याम् नि० कृष्ण-पक्षीयपञ्चदशीतिथौ तथा हि अधः प्रदेशवर्त्तीशीघ्रगामी चन्द्रः, ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यः ।तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनति-रिक्तं सत् सूर्य्यमण्डलस्याधोभागे व्यवस्थितम् भवतितदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमी-षदपि दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटो-पलक्षितःकालः अमावस्येति निष्कर्षः “सूर्य्याचन्द्रमसोःयः परो विप्रकर्षः सा पौर्णमासी र्यः परःसन्निकर्षःसाऽमावस्येति” गोभि० “अमावस्या गुरुं हन्ति शिष्यंहन्ति चतुर्दशी” मनुः अमावास्यायांभवः वा क्वुन् अमा-वास्यकः अण् आमावस्यः तत्रभवे
त्रि०
“य आगारेमृगयन्ते प्रतिक्रोशेऽमावास्ये” अथ० ३६,