| YouTube Channel

अमर्षणः (amarSaNaH)

 
E Bharati Sampat
Sanskrit
(वि) मर्षणः मर्षशीलः। न+मृष(तितिक्षायाम्)+युच्(ताच्छील्ये) १.कोपी, क्रोधनः। ‘क्रोधनोऽमर्षणः कोपी’ अमरः।‘पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः’ रघुः३.५३। २.असहिष्णुः। ‘विशेषात् परिपूर्णस्य याति शत्रोरमर्षणः। आभिमुख्यम्’ पञ्चतं०१.३५५।
शब्दकल्पद्रुमः
Sanskrit
अमर्षणः, त्रि, (मृष् + बाहुल्यात् कर्त्तरि ल्युट्नञ्समासः ।) क्रोधी इत्यमरः
(क्रोधनः ।कोपनस्वभावः अतिसंक्रुद्धः प्रक्रोपितः ।“रघोवरष्टम्भमयेन पत्रिणाहृदि क्षतोगोत्रभिदप्यमर्षणः” ।इति रघुवंशे असहनः असहिष्णुः
पर-कृतापमानादेरसहनशीलः ।“गत्वा ह्रदे वासुदेवेन सार्द्धंअमर्षणं धर्षयतः सुतं मे” इति महाभारते ।“अमर्षणः शोणितकाङ्क्षया किंपदा स्पृशन्तं दशति द्विजिह्वः” इति रघुवंशे ।)