| YouTube Channel

अमरः (amaraH)

 
Apte Hindi
Hindi
अमरः
पुं*
- -
"देव, देवता"
अमरः
पुं*
- -
पारा
अमरः
पुं*
- -
सोना
अमरः
पुं*
- -
तेंतीस की संख्या
अमरः
पुं*
- -
अमरसिंह
अमरः
पुं*
- -
हड्डियों का ढेर
अमरः
पुं*
- -
" देव, सुर"
E Bharati Sampat
Sanskrit
(पुं) म्रियते न+मृङ्(प्राणत्यागे)+अच् ‘नन्दिग्रहि०’ ३.१.१३४। १.देवः, सुरः। ‘विबभौ देवसङ्काशो वज्रपाणिरिवामरैः’ महाभा०। २.अमरसिंहः, नामलिङ्गानुशासनरचयिता कोशकारः आदिशाब्दिकः। ‘पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः’ ३.स्नुहीवृक्षः, कुलिशद्रुमः। ४.पारदः। ५.अस्थिराशिः, अस्थिसंहारः। ‘अमरः सुरे स्नुहीवृक्षेऽस्थिसंहारेऽपि’ हैमः। (वि) ६.मरणरहितः। ‘उत्पादयति सावित्र्या सा सत्या साऽजरामरा’ मनुः२.१४८। (स्त्री) अमरा ७.अमरावतीपुरी, इन्द्रनगरी ८.अमृतवल्ली ९.दूर्वा १०.स्थूणा ११.जरायुः, गर्भाशयः। १२.गर्भनाला, नाभिनाला १३.गुडूची १४.इन्द्रवारुणीवृक्षः। १५.घृतकुमारी ‘अमरस्त्रिदशोऽस्थिसंहारे कुलिशद्रुमे स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु’ मेदिनी ‘अमरा नाभिनालायां गुडूच्यामपि’ त्रिका०।
Wordnet
Sanskrit
Synonyms:
अमरकोशः, अमरकोषः, अमरः
noun
अमरसिंहेन रचितः शब्दकोशः।
"अमरकोशे त्रीणि खण्डानि सन्ति।"
Synonyms:
रुद्राक्षः, तृणमेरुः, अमरः, पुष्पचामरः
noun
वृक्षविशेषः, स्वनामख्यातवृक्षः आयुर्वेदे अस्य वातकृमिशिरोर्तिभूतग्रहविषनाशित्वादि गुणाः प्रोक्ताः।
"यः नरः रुद्राक्षस्य बीजं भक्त्या धारयेत् सः शिवलोकम् अवाप्नुयात्"।
Synonyms:
गर्भनाडी, अमला, अमरः
noun
रज्जोः आकारस्य सा नलिका यस्याः एकः भागः गर्भस्थस्य शिशोः नाभिना संयुज्यते अपरश्च गर्भाशयेन।
"गर्भावस्थायां गर्भस्थः शिशुः गर्भनाड्या एव पोषकतत्त्वान् प्राप्नोति।"
Synonyms:
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः
noun
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
"पारदः निखिलयोगवाहकः अस्ति।"
Synonyms:
देवः, देवता, सुरः, अमरः, निर्जरः, त्रिदशः, सुपर्वा, सुमनाः, त्रिदिवेशः, दिवौकाः, आदितायः, दिविषत्, लेखः, अदितिनन्दनः, ऋभुः, अमर्त्यः, अमृतान्धाः, बर्हिर्मुखा, क्रतुभुक्, गीर्वाणः, वृन्दारकः, दनुजारिः, आदित्यः, विबुधः, सुचिरायुः, अस्वप्नः, अनिमिषः, दैत्यारिः, दानवारिः, शौभः, निलिम्पः, स्वाबाभुक्, दनुजद्विट्, द्युषत्, दौषत्, स्वर्गी, स्थिरः, कविः
noun
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
"अस्मिन् देवालये नैकाः देवताः सन्ति।"
Synonyms:
ईश्वरः, परमेश्वरः, परेश्वरः, परमात्मा, देवः, अमरः, विबुधः, अनिमिषः, अजरः, चिरायुः, सुचिरायुः, भगवान्, सर्वस्रष्टा, धाता, विधाता, जगत्कर्ता, विश्वसृक्, भूतादिः, परब्रह्म, ब्रह्म, जगदात्मा, हम्, स्कम्भः, सूक्ष्मः, सर्वेशः, सर्वसाक्षी, सर्वविद्, श्वःश्रेयसम्, शब्दातीतः
noun
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
"ईश्वरः सर्वव्यापी अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अमरः,
पुं,
(मृ + कर्त्तरि अच् नञ्समासः ।) देवः ।इत्यमरः
(“विबभौ देवशङ्काशो वज्रपाणिरिवामरैः” ।इति महाभारते ।“फलं कर्म्मायत्तं किममरगणैः किञ्च विधिना” ।इति शान्तिशतके ।)कुलिशवृक्षः अस्थिसंहारवृक्षः
इति मेदि-नी
पारदः इति राजनिर्घण्टः
मृत्युरहि-ते त्रि यथा, --“अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्” ।इति हितोपदेशः
अमरसिंहः चादिशा-ब्दिकः नामलिङ्गानुशासननामककोषकारः विक्र-मादित्यराजसभीयनवरत्नान्तर्गतरत्नविशेषश्च ।यथा, --“इन्द्रश्चन्द्रः काशकृस्ना पिषली शाकटायनः ।पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः
इति कविकल्पद्रुमः
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टघटकर्परकालिदासाः ।ख्यातो वराहमिहिरो नृपतेः सभायांरत्नानि वै वररुचिर्नव विक्रमस्य”
इति नवरत्नं
एव बौद्धमतावलम्बीति केचित्