| YouTube Channel

अमन्-न्ती (aman-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@‘अम गत्यादिषु’@} 2 ‘गत्यादावमतीति स्याद् रोगे स्यादामयत्यमेः।’ 3 इति देवः।
4 अमकः-मिका, आमक 5 ः-मिका, अमिमिषकः-षिका
अमिता-त्री, आमयिता-त्री, अमिमिषिता-त्री
6 मन्-न्ती, आमयन्-न्ती, अमिमिषन्-न्ती
अमिष्यन्-न्ती-ती, आमयिष्यन्-न्ती-ती, अमिमिषिष्यन्-न्ती-ती
आमयमानः, आमयिष्यमाणः
7 आन्-आमौ-आमः
8 अमितम् 9 -तः-तवान्, 10 आन्तम्-न्तः-न्तवान्, आमितः, अमिमिषितः-तवान्
अमः, आमः, अमिमिषुः, आमिमयिषुः, अभ्य 11 मी
12 अमितव्यम्, आमयितव्यम्, अमिमिषितव्यम्
अमनीयम्, आमनीयम्, अमिमिषणीयम्
13 अम्यम्, आम्यम्, अमिमिष्यम्
ईषदमः-दुरमः-स्वमः
अम्यमानः, आम्यमानः, अमिमिष्यमाणः
अमः, आमः, अमिमिषः
अमितुम्, आमयितुम्, अमिमिषितुम्
14 आन्तिः, आमना, अमिमिषा, आमिमयिषा
अमनम्, आमनम्, अमिमिषणम्
अमित्वा, आमयित्वा, अमिमिषित्वा
समम्य, समाम्य, सममिमिष्य
आमम् २, अमित्वा २, आमम् २, आमयित्वा २, अमिमिषम्
अमिमिषित्वा
प्रासङ्गिक्यः
01
=>
(३२)
02
=>
(१-भ्वादिः-४६५-सक-से-पर।)
03
=>
(श्लो १४७, पूर्वार्धम्)
04
=>
[[१। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
05
=>
[[१। आ। अस्य धातोरमन्तत्वेन प्राप्तं मित्त्वे, ‘न कम्यमिचमाम्’ (ग। सू। भ्वादौ) इति निषिध्यते। अतः ‘मितां हस्वः’ (६-४-३२) इति ह्रस्वो न।]]
06
=>
[[आ। ‘वनाद्वनं सानुममन् द्रमन् गृहं व्याधोत्करोऽहम्मतिमीमिताशयः। चान्तामिष- श्छान्तजलः फलावलीं जान्त्वा झमज्झेमनमक्रमीद् गुहाम्।।’ धा। का। १-६०।]]
07
=>
[[२। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति नत्वम्।]]
08
=>
[पृष्ठम्००३०+ २७]
09
=>
[[आ। ‘तेषां निहन्यमानानां संघुष्टैः कर्णमेदिभिः। अभूदभ्यमितत्रासमास्वान्ता- शेषदिग् जगत्।।’ भ। का। ९-२१।]]
10
=>
[[१। ‘रुष्यमत्वरसंघुषाऽऽस्वनाम्’ (७-२-२८) इति निष्ठायामिड्विकल्पः। इड- भावपक्षे ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः।]]
11
=>
[[२। ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (३-२-१५७) इति तच्छीला- दिषु कर्तृषु इनिः।]]
12
=>
[[B। ‘शैले विश्रयिणं क्षिप्रं अनादरिणमभ्यमी। न्याय्यं परिभवी ब्रूहि पापमव्य- थिनं कपिम्।।’ भ। का। ७-२०।]]
13
=>
[[३। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
14
=>
[[४। ‘तितुत्रे--’ (७-२-९) तीण्णिषेधः। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः।]]