| YouTube Channel

अमङ्गलं (amaGgalaM)

 
शब्दकल्पद्रुमः
Sanskrit
अमङ्गलं,
क्ली,
(नास्ति मङ्गलं शुभं यस्मात् तत् ।)अशुभसूचकं तद्यथा --“सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसङ्ख्यकैः ।ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि
ययौ तथापि समरं जगाम गृहं पुनः ।मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरां
कृष्णवस्त्रपरीधानामपरां विधवामपि ।मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टिनीं ।पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ।कुम्भकारं तैलकारं व्याधं सर्पोपजीविनं
कुचेलमतिरूक्षाङ्गं नग्नं काषायवासिनं ।अङ्गविक्रयिणञ्चैव कन्याविक्रयिणं तथा
चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव ।सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषं
श्राद्धपात्रञ्च पिण्डञ्च मोटकं वानरं तथा ।देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनं
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकं ।कुशपुत्तलिकाञ्चैव शवदाहनकारिणं
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि ।कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणं
दक्षिणे शृगालञ्च कुर्व्वन्तं भैरवं रवं ।कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलं
कलहञ्च विलापञ्च विलापकारिणं जनं ।अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणं
मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनं ।पुंश्चलीपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनं
देवतागुरुविप्राणां वस्तुवित्तापहारिणं ।दत्तापहारिणं दस्युं हिंसकं सूचकं खलं
पितृमातृविरक्तञ्च द्विजाश्वत्यविधातिनं ।सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनं
विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकं ।गुरुदेवद्विजानाञ्च निन्दकं स्वाङ्गघातकं
जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्द्दयं ।व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकं
गलितव्याधिगात्रञ्च काणं वधिरमेव ।पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा
क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा ।मूत्रं पुरीषं श्लेष्माणं कन्थिनं नृकपालिनं
झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनं ।वृकञ्च शूकरं गृव्रं श्येनं कङ्कञ्च भल्लुकं
पाशञ्च शुष्ककाष्ठञ्च बायसं गन्धकं तथा ।अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रोपजीविनं
वैद्यञ्च रक्तपुष्पञ्चैवौषधं तुषमेव ।कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणं
दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि ।मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरं
वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ।तथापि राजा निःशङ्को दर्शं दर्शममङ्गलं”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः