| YouTube Channel

अभ्रंकषः (abhraMkaSaH)

 
E Bharati Sampat
Sanskrit
(पुं) अभ्रं कषति अभ्र+कष(हिंसायाम्)+खच्, मुम् ‘सर्वकूलाभ्रकरीषेषु कषः’ ३.२.४२। ‘अरुर्द्वि० मुम्’ ६.३.६७। १.वायुः। (वि) २.गगनस्पर्शी, अत्युन्नतः। ‘आदायाभ्रंकषं प्रायान्मलयम्’ भट्टिः६.१०३।