| YouTube Channel

अभ्युपगतः (abhyupagataH)

 
E Bharati Sampat
Sanskrit
(वि) आभिमुखम् उपगतः। अभि+उप+गम्लृ(गतौ)+ १.अङ्गीकृतः, स्वीकृतः, उररीकृतः। ‘अभ्युपगतमुररीकृतम्’ हैमः। २.प्राप्तः। ३.कर्तरि क्तः। ‘गत्यर्थाकर्मक०’ ३.४.७२। समीपम् आगतः। ४.अभिमुखं गतः।
शब्दकल्पद्रुमः
Sanskrit
अभ्युपगतः, त्रि, (अभि + उप + गम् + क्तः ।) स्वी-कृतः अङ्गीकृतः इति हेमचन्द्रः
(“प्रियाभ्युपगते राज्ये पाण्डवा मधुसूदन ।जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतं”
इति महाभारते समीपागतः अन्तिक-समागतः अनुमितः निर्द्धारितः सिद्धान्त-तया निरूपितः सदृशीभूतः सन्निकृष्टः ।)