| YouTube Channel

अभ्युदितः (abhyuditaH)

 
E Bharati Sampat
Sanskrit
(वि) अभि सर्वतः उत् अतिशयेन इतं गतं प्रातस्तनं कर्म यस्मात् अभि+उत्+इण्(गतौ)+क्तः(कर्तरि) ‘गत्यर्थाकर्मक०’ ३.४.७२। १.सूर्योदयकाले निद्रया अकृततत्कालकर्तव्यः। ‘सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम्’ अमरः। ‘सूर्येण ह्मभिनिर्मुक्तः शयानोऽभ्युदितश्च यः’ मनु०२.२२१। २.अभितः उदितः। ३.प्रकाशितः। ‘माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ’ म०त०पुरा०।
शब्दकल्पद्रुमः
Sanskrit
अभ्युदितः, त्रि, (अभि + उत् + इन् + क्तः ।) यस्मिन्सुप्ते सूर्य्य उदेति सः सूर्य्योदयकालशायी ।इत्यमरः
उदयप्राप्तः यथा, --“माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ ।ब्रह्मघ्नमपि चाण्डालं कं पतन्तं पुनीमहे”
इति तिथ्यादितत्त्वं
(अभितः सर्व्वतः उदति-शयेन इतं गतं प्रातर्विहितं कर्म्मास्मादिति व्युत्-पत्या सूर्य्योदयकाले निद्रया अननुष्ठिततत्कालो-चितक्रियाकलापः ।)