| YouTube Channel

अभ्यसूयकः (abhyasUyakaH)

 
E Bharati Sampat
Sanskrit
(वि) अभ्यसूयति अभि+असू( उपतापे)+यक्+ण्वुल् ‘कण्ड्वादिभ्यो यक्’ ३.१.२७। ‘ण्वुल्तृचौ’ ३.१.१३३। १.असूयाकर्ता, गुणेषु दोषारोपकः। २.अधिकतया असूयाकारकः। ‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’ गीता १६.१८। (स्त्री) अभ्यसूयिका