| YouTube Channel

अभ्यर्णः (abhyarNaH)

 
E Bharati Sampat
Sanskrit
(पु) अभ्यर्द्यते अभि+अर्द(गतौ)+क्तः(कर्मणि कर्तरि वा) ‘निष्ठा’ ३.२.१०२। १.सामीप्यम् ‘अभ्यर्णे परिरम्भनिर्भरभरः प्रेमान्धया राधया’ गीतगो०१.१३। (वि) २.समीपे स्थितः, अन्तिकः। ‘उपकण्ठान्तिकाभ्यर्णाभ्यग्राः’ अमरः। ‘तपति प्रावृषि नितरामभ्यर्णजलागमो दिवसः’ रत्ना०३.१०।