| YouTube Channel

अभ्यर्णं (abhyarNaM)

 
शब्दकल्पद्रुमः
Sanskrit
अभ्यर्णं, त्रि, (अभि + अर्द्द + क्तः, आविदूर्य्ये इड-भावः णत्वश्च ।) निकटं इत्यमरः (आसन्नः ।निकटवर्त्ती “तीव्रः स्मरसन्तापो तथादौ बा-धते यथासन्ने तपति प्रावृषि नितरामभ्यर्ण-जलागमो दिवसः” इति रत्नावली “उच्यन्तांसैनिकाः कैश्चिदाश्रमाभ्यर्णभूमयः परिक्रा-म्यन्तां” इति महावीरचरिते समीपं सन्नि-धानं अन्तिकं “अभ्यर्णे परिरभ्य निर्भरमुरःप्रेमान्धया राधया” इति गीतगीविन्दे ।)