| YouTube Channel

अभुक्तः (abhuktaH)

 
शब्दकल्पद्रुमः
Sanskrit
अभुक्तः, त्रि, (भुज् + भावे क्तः अर्श आद्यच् विद्य-मानार्थे, नञ्समासः, वा भुज + कर्म्मणि क्तः, नञ्समासः ।) उपवासी यथा, --“अभुक्तस्य दिवानिद्रा पाषाणमपि जीर्य्यति” ।इति वैद्यकं
अकृतभोजनं वस्तु
(भुक्ता ब्राह्मणाःपीता गाव इति पाणिनिभाष्यम् ‘नाभुक्तं क्षीयतेकर्म्म कल्पकोटिशतैरपि’ इति पुराणम् ।)