अभिहितान्वय (abhihitAnvaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaअभिहितान्वय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಭಿಧಾವೃತ್ತಿಯಿಂದ ತಿಳಿಸಲ್ಪಟ್ಟ ಪದಾರ್ಥಗಳ ಸಂಬಂಧ /ಪದಗಳಿಗೆ ಆಯಾ ಪದಾರ್ಥಗಳಲ್ಲಿ ಮಾತ್ರ ಶಕ್ತಿಯಿರುವುದರಿಂದ ಪ್ರತ್ಯೇಕ ಪದಗಳಿಂದ ಬೋಧಿತವಾದ ಅರ್ಥಗಳನ್ನು ತಾತ್ಪರ್ಯವೆಂಬ ವೃತ್ತಿಯಿಂದ ಸಂಬಂಧಪಡಿಸಿ ಹೇಳುವುದು
व्युत्पत्तिः - > अभिहितानां अभिधावृत्त्या बोधितानां पदार्थानां परस्परमन्वयः
E Bharati Sampat
Sanskrit(पुं) अभिहितानाम् अभिधया बोधितानां पदार्थानाम् अन्वय: परस्परसम्बन्ध। अभिधावृत्या प्रत्येकम् उपस्थितानाम् पदार्थानां परस्परसम्बन्ध:। ‘तात्पर्याख्यां वृत्तिमाहु: पदार्थान्वयबोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे’ सा०द०२.२०।
वाचस्पत्यम्
Sanskritअभिहितान्वय अभिहितानामन्वयः । अभिभावृत्त्या(शक्त्या)उपस्थापितानामर्थानां परस्परसंबन्धे । तथा हि अभिधावृत्त्यापदार्थबोधने द्विधा प्रकारः । अन्विताभिधानम् अभिहिता-न्वयश्च तत्र मोमांसका एवमाहुः “सर्वेषां शब्दानां व्यवहा-रादेव प्रथमं व्युत्पत्तिर्गृह्यते इतरोपायानां शब्दव्युत्प-त्त्यघीनत्वात् । तथा हि प्रयोजकस्य वाक्योच्चारणानन्तरंप्रयोज्यप्रवृत्तिमुपलभमानो बालः प्रेक्षावद्वाक्योच्चारणस्यप्रयोजनजिज्ञासायां तदन्तयव्यतिरेकानुबिधायित्वादुप-स्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिरेव प्रयोजनमवधारयति नचाकिञ्चित्कुर्व्वतस्तादर्थ्यं सम्भवतीति तद्वाक्यजन्यं प्रवृ-त्त्यनुकूलं कार्य्यताज्ञानमेव कल्पयति स्वप्रवृत्तौ बालेनकार्यताज्ञानस्य हेतुत्वावधारणात् तथा च प्रेक्षावत् प्रवृत्तिःकार्यताज्ञानाधीना प्रवृत्तित्वात् मदीयप्रवृत्तिवदित्यनुमीषतेतत्र कारणान्तरानुपस्थितेः शब्दस्यैवोपस्थितेस्तस्यैव कार्यता-ज्ञानहेतुत्वमवधार्य्य तत्रैव शक्तिं कलायति पश्चाच्चान्वयव्यति-रेकाभ्यां क्रियाकारकपदानां कार्य्यान्विततत्तदर्थेषु शक्तिंगृह्णाति प्रथमं गृहीतसामान्यशक्त्यनुरोधात् । ततश्च पदंकार्य्यान्वितज्ञानशक्तं पदत्वादिति सामान्यतोऽवगतः स्वार्थः, विशेषः नरं नाधिगनः स च उत्तरकाले सुहृदुपदेशादिभिरवगम्यते । अतः प्रवृत्तिपराणामेब शब्दानां प्रवर्त्तकज्ञानजन-कत्वम् तच्च क्कचित् साक्षात् क्वचित्परम्परया कार्य्यान्वितम्तत्र साक्षात् यजेत घटमानयेत्यादौ वाक्ये । विधिशेषीभूता-र्थबादादौ तु परम्परया । कार्य्यान्वय इति सर्व्वत्रवेदे काय्यान्वितस्वार्थबोधकता स्वरूपाख्यानपराणान्तुकाव्यनाटकादेनां पदार्थासंसर्गाग्रहेण संसर्गस्य व्यवहारःन तु संसर्गग्रहेण, तथा च व्यवहारेणैवानुमिते इतरान्वित-ज्ञाने करणत्वग्रहात् तत्रैव शक्तिर्गृह्यते उपस्थित-त्वात् नचाग्रे तत्त्यागः हेत्वभावात् । न तु पदार्थमात्रेशक्तिग्रहः व्यवहारात्तस्यानुपस्थितेः उपायान्तरात्तदु-पस्थित्त्यन्तरकल्पने मानाभावात । एवञ्च इतरान्वितस्वार्थज्ञानशक्तत्वेन ज्ञात पद स्वार्थान्वयानुभावकमिति वाक्यार्थएव शक्त्याऽभिधीयते इत्यन्विताभिधानवादिनः” । अभि-हितान्वयवादिनस्तु नैयायिकादयस्तेषामयमाशयः । इतरा-न्वितपदार्थज्ञानोपस्थितौ पदार्थज्ञानं विशेष्यमिति तदुप-स्थितौ पदार्थस्य विषयत्वात् विशिष्टज्ञानस्य विशेष्यविष-यत्वनियमादिति तत्रैब शक्तिः कल्प्यते लाघवात् नत्व-ऽन्वयांशेऽपि गौरबात् अस्तु वा प्रथममितरान्विते शक्तिग्रहोऽग्रे तस्य त्यागः आकाङ्क्षायोग्यतादिलभ्यत्वप्रति-सन्धानात् अनन्यलभ्यस्यैव शब्दार्थत्वात् प्रथम गृहीतत्वमा-त्रस्याकिञ्चित्करत्वात् तथा च घटशक्तत्वेनज्ञातं पदं स्वार्थ-स्मरणद्वाराकाङ्क्षादिसहकारिवशात् समभिव्याहृतपदार्थेनसहस्वार्थस्यान्वयमनुभावयति स्वभावादित्यन्यथैवान्वयज्ञानो-दयात् किं तत्र शक्त्या, अन्वयमात्रशक्तावपि अन्वयविशेष-ज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् तैरेव सहकारिभि-रन्वयविशेषावगमसम्भवात् । क्रियाकारकपदयोः प्रत्येकमि-तरान्वितस्वार्थबोधकत्वेऽवान्तरवाक्यार्थद्वयबोधप्रसङ्गात् । नचैकमेव पदमन्विताभिधायकमितरत्तु अन्वयप्रतियोगिस्मार-कमिति वाच्यम् अविशेषात् कस्याभिधायकत्वमित्यनिर्ण्ण-यात् । किञ्च किमशक्ययोरेवान्वये शक्तिः? उत शक्ययोः?आद्ये यस्य कस्यापि अन्वयबोधकत्वापत्तेरतिप्रसङ्गः स्यात्तथा च शक्यान्वयाभिधायकत्वं वाच्यं एवं च शक्ये शक्या-न्वये च द्विधा शक्तिः कल्पनीयेति गौरवम् । अथ अन्वय-तात्पर्य्यकतया तत्प्रतिपादकं पदमित्युभयसस्मतम् तात्-पर्य्यनिर्वाहिका च वृत्तिः सा च न गौणी न वा लक्षणेतिअगत्या शक्तिः स्वीकार्य्योति चेत् वृत्तिं विनापि तात्पर्य्य-निर्वाहात् किं वृत्त्या, पदानामुक्तक्रमेणान्वयबोधकत्वसम्भ-वात् अन्यथा शक्त्यैव तात्पर्य्यनिर्वाहावश्यम्भावे लक्षणो-च्छेदः स्यात् । अथ घटमानयेत्यादौ प्रत्येकमन्वये सत्येवविशेषान्वयसामान्ये जिज्ञासा भवति न च सामान्यानवगमेविशेषे सा स्थादित्यतस्तत्र शक्तिरिति चेन्न कारकेण क्रियायाःक्रियया च कारकस्य सामान्यत आक्षेपात् दृष्टे फलेतदीयरसजिज्ञासावत् तदुपपत्तेः ततश्च पदार्थे एव शक्तिःन पदार्थान्वयांशे तस्मात् पदज्ञानं करणं पदार्थस्मरणंव्यापारः आकाङ्क्षादिसहकारात् स्मारितपदार्थान्वयानु-भवः फलमिति” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
