अभिष्यन्दः (abhiSyandaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiअभिष्यन्दः
- अभि+स्यन्द्+घञ्
"स्राव, बहाव, टपकना"
अभिष्यन्दः
- अभि+स्यन्द्+घञ्
आँख आना
अभिष्यन्दः
- अभि+स्यन्द्+घञ्
"अतिवृद्धि, अतिरेक, आधिक्य, अतिरिक्त भाग"
E Bharati Sampat
Sanskrit(पुं) अभि+स्यन्द(प्रस्रवणे)+घञ्(भावे) । ‘भावे’ ३.३.१८। १.प्रस्रवणम्, प्रवहणम् । २.जलाधिक्षरणम् । ३.अधिकम्, अतिवृत्तिः।** ४.विस्तारः। ‘स्वर्गाभिष्यन्दवमनं क्रुत्वेवोपनिवेशितम्’ कुमा०६.३७।
Wordnet
Sanskrit अभिष्यन्दः, नेत्राभिष्यन्दः
नेत्ररोगविशेषः।
"अभिष्यन्दः संस्पर्शजः रोगः अस्ति।"
प्रवाहः, स्रवः, स्रवणम्, स्रोतः, प्रस्रवः, प्रस्रावः, स्रावः, स्यन्दः, स्यन्दनम्, निस्यन्दः, अभिष्यन्दः
द्रवपदार्थस्य वहनक्रिया।
"सः जलस्य प्रवाहे निर्गतः।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritअभिष्यन्दः, (अभि + स्यन्द + घञ् । “अनुविप-र्य्यभिनिभ्यः स्यन्दतेरप्राणिषु” इति षत्वं ।) अति-वृद्धिः । आस्रावः ।“अलकामतिवाह्यैव वसतिं वसुसम्पदाम् ।स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्” ॥
इति कुमारसम्भवे ।) चक्षूरोगविशेषः । इतिमेदिनी ॥
तस्य निदानं सम्प्राप्तिश्च । यथा, --“उष्णाभितप्तस्य जलप्रवेशाद्-दूरेक्षणात् स्वप्नविपर्य्ययाच्च ॥
स्वेदाद्रजोधूमनिषेवणाच्चछर्देर्विघाताद्वमनातियोगात् ॥
द्रवात्तथान्नान्निशि सेविताच्चविण्मूत्रवातक्रमनिग्रहाच्च ।प्रसक्तसंरोदनशोककोपा-च्छिरोऽभिघातादतिमद्यपानात् ॥
तथा ऋतूनाञ्च विपर्य्ययेणक्लेशाभिघातादतिमैथुनाच्च ।वाष्पग्रहात् सूक्ष्मनिरीक्षणाच्चनेत्रे विकारान् जनयन्ति दोषाः” ॥
स च चतुर्व्विधः । यथा, --“वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्व्विधः ।प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥
निस्तोदनस्तम्भनरोमहर्ष-संघर्षपारुष्यशिरोऽभितापाः ।विशुष्कभावः शिशिराश्रुता चवाताभिपन्ने नयने भवन्ति ॥
दाहप्रपाकौ शिशिराभिनन्दाधूमायनं वाष्पसमुच्छ्रयश्च ।उष्णाश्रुता पीतकनेत्रता चपित्ताभिपन्ने नयने भवन्ति ॥
उष्णाभिनन्दा गुरुताक्षिशोथःकण्डूपदेहावतिशीतता च ।स्रावो बहुः पिच्छिल एव चापिकफाभिपन्ने नयने भवन्ति ॥
ताम्राश्रुता लोहितनेत्रता चराज्यः समन्तादतिलोहिताश्च ।पित्तस्य लिङ्गानि च यानि तानिरक्ताभिपन्ने नयने भवन्ति” ॥
इति माधवकरः ॥
तस्य चिकित्सा यथा, --“द्वे पादमध्ये पृथुसन्निवेशेशिरो गते द्वे बहुधा हि नेत्रे ।ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति” ॥
प्रोक्षणं सेचनं । उत्सादनं उद्वर्त्तनं ।“मलोष्मसंघट्टनपीडनाद्यै-स्ता दूषयन्ते नयनानि दुष्टाः ।भजेन्महादृष्टिहितानि तस्मा-दुपानदभ्यञ्जनधावनानि” ॥
मलं धूल्यादि । मलादिभिर्दुष्टाः ताः शिरानय-नानि दूषयन्ते इत्यन्वयः ॥
“चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलं ।पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकं ॥
पटोलकर्कोटककारवेल्ल-फलानि सर्पिःपरिपाचिताति ।तथैव वार्त्ताकुफलं नवीनंदृशोर्हितः स्वादु तथापि तिक्तः ॥
कट्वम्लगुरुतीक्ष्णोष्णमाषनिष्पावमैथुनंमद्यवल्लूरपिण्याकमत्स्यशाकविरूढजं ।विदाहीन्यन्नपानानि न हितान्यक्षिरोगिणः ॥
सेक आश्चोतनं पिण्डी विडालस्तर्पणं तथा ।पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत्” ॥
* ॥
कल्कविधिः । तत्र सेकविधिः ।“सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ।मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः ॥
स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः ।लेखनस्तु कफे कार्य्यस्तस्य मात्रा विधीयते ॥
षडभिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे ।तैस्त्रिभिर्लेखने कार्य्यः सेको नेत्रप्रसादने ॥
निमेषोन्मेषणे पुंसामङ्गल्याच्छोटिका तथा ।गुर्व्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः” ॥
छोटिका टुटकी इति लोके ।“सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे” ।स यथा, --“एरण्डदलमूलत्वक्शृतमाजं पयो हितं ।सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनं ॥
पथ्याक्षामलखस्खसवल्कलकल्केन सूक्ष्मवस्त्रेण ।कृत्वा पोटलिकां तामहिफेनोत्थद्रवेणाक्तां ॥
निदधीत लोचने स्यात् सर्व्वाभिष्यन्दसंक्षयः शीघ्रं ।योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः ॥
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहं ।आमलैः सततं स्नानं परं दृष्टिबलावहं ॥
त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित् ।कवलान्मुखरोगघ्नः पानतः कामलापहः” ॥
* ॥
अथाश्चोतनविधिः ।“क्वाथक्षीरद्रवस्नेहविन्दूनां यत्तु पातनं ।द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्चोतनञ्च तत् ॥
विन्दवोऽष्टौ लेखनेषु रोपणे दशविन्दवः ॥
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः ।उष्णे तु शीतरूपाः स्युः सर्व्वत्रैवैष निश्चयः ॥
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलं ।कफे तिक्तोष्णरूक्षं स्यात् क्रमादाश्चोतनं हितं ॥
आश्चोतनानां सर्व्वेषां मात्रा स्याद्वाक्षतोन्मिता ।ततः परं लोचनाभ्यां भेषजाय नयो मतः ॥
अश्चोतनं न कर्त्तव्यं निशायां केनचित् क्वचित्” ।तद्यथा, --“विल्वादिपञ्चमूलेन वृहत्येरण्डशिग्रुभिः ।क्वाथ आश्चोतने कोष्णो वाताभिष्यन्दनाशनः ॥
त्रिफलाश्चोतनं नेत्रे सर्व्वाभिष्यन्दनाशनं” ॥
* ॥
अथ पिण्डीविधिः ।“उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया ।वस्त्रखण्डेन संबद्धाभिष्यन्दव्रणनाशिनी ॥
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता ।रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयं” ॥
सा यथा, --“एरण्डपत्रमूलत्वङिनिर्म्मिता वातनाशिनी ।धात्री विरचिता पित्ते शिग्रुपत्रकृता कफे ॥
निम्बपत्रकृता पिण्डी पित्तश्लेष्महरी भवेत् ।शुण्ठी निम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा ॥
धार्य्या नेत्रेऽनिलश्लेष्मशोथकण्डूव्यथाहरी ।त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा” ॥
“पथ्याक्षामलखस्खसवल्कलकल्कोऽहिफेनजलयुक्तः ।तेनविरचिता पिण्डी शमयति सकलानभिष्यन्दान्” ॥
इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
