अभिव्यक्ति (abhivyakti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English अभिव्यक्ति abhivyakti distinction
अभिव्यक्ति abhivyakti manifestation
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअभिव्यक्तिः [abhivyaktiḥ],
Manifestation (of a cause as an effect)
distinction, exposition, declaration, revelation, display, exhibition
सर्वाङ्गसौष्ठवाभिव्यक्तये 1
दूतीसंप्रेषणै- र्नार्या भावाभिव्यक्तिरिष्यते S. D.* 6.
Association, concomitance
VIII.1.15 (Sk. साहचर्यम्).
Apte 1890
EnglishMonier Williams 1872
EnglishGoldstucker
Englishअभिव्यक्ति Tatpur. f. (-क्तिः) Revelation, manifestation, ap-
pearance, the making or becoming of a thing evident to
the senses
(therefore ‘belonging to the present time, and
not applicable to wisdom or knowledge’: Vījnānāch.--on
the Sāṅkhya Sūtra नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ--:
अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यभावाच्चोत्पत्तिव्यवहा-
राभावः । न त्वसतः सत्तयेत्यर्थः । अभिव्यक्तिश्च न ज्ञानं किं तु
वर्तमानावस्था
or the same--on the Sāṅkhya S. सत्कार्य-
सिद्धान्तश्चेत्सिद्धसाधनम्--:अभिव्यक्तिर्यद्यनागतावस्थात्यागेन
वर्तमानावस्थालाभ इत्युच्यते &c.)
e. g. Sāṅkhya Sūtra: ना-
नन्दाभिव्यक्तिर्मुक्तिर्निर्धर्मत्वात्, Vijnānāch.: आत्मन्यानन्दरूपो
ऽभिव्यक्तिरूपश्च धर्मो नास्ति स्वरूपं च नित्यमेवेति न साधन-
साध्यम् । अतो नानन्दाभिव्यक्तिर्मोक्ष इत्यर्थः
or Yoga Sūtra:
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासना
or Nyāya Sūtras:
वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥
अभिव्यक्तौ चाभिभवात् (Viśvan.: अभिव्यक्तौ प्रत्यक्ष उद्भूतत्वे)
or Ved. Sūtra: अभिव्यक्तेरित्याश्मरथ्यः (Śaṅkara: अतिमात्र-
स्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्)
or
Jaiminīyanyāy.: एवं फलमित्यस्मिन्प्रथमैकवचने नपुंसकाभिव्य-
क्तिः
or Ānandag. on Śaṅk. on the Kenop.: प्रत्यगात्मतया
ब्रह्मणो यथाभिव्यक्तिः स्यात्तथोपदिश्यते
or Pāṇ.: द्वन्द्वं रह-
स्यमर्यादा°°° अभिव्यक्तिषु
or Sāhityad.: लेख्यप्रस्थापनैः स्नि-
ग्धैर्वीक्षितैर्मृदुभाषितैः । दूतीसंप्रेषणैर्नार्या भावाभिव्यक्तिरि-
ष्यते. E. अञ्ज् with वि and अभि, kṛt aff. क्तिन्.
Apte Hindi
Hindiअभिव्यक्तिः
- अभि+वि+अंज्+क्तिन्
"प्रकट होना, वैशिष्ट्य, दिखावा, प्रदर्शन"
Shabdartha Kaustubha
Kannadaअभिव्यक्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸ್ಪಷ್ಟವಾಗಿ ಕಾಣುವಿಕೆ /ಪ್ರಕಟವಾಗುವಿಕೆ
निष्पत्तिः - > अभि + वि + अञ्चू (व्यक्त्यादौ) - "क्तिन्" (३-३-९४)
L R Vaidya
EnglishSanskrit Tibetan
Tibetanmngon pa
१) अभिधर्म २) अभिधर्मपिटक ३) अभिव्यक्ति ४) आभासन्ते ५) ज्ञायते ६) प्रकट ७) प्रज्ञायते
mngon par gsal ba
अभिव्यक्ति
वाचस्पत्यम्
Sanskritअभिव्यक्ति स्त्री अभि + वि--अन्ज--क्तिन् । १ प्रकाशे सूक्ष्म-रूपेण स्थितस्य (“कारणात्मना स्थितस्य) कारणस्य २ कार्य्य-रूपेणाविर्भावे । साङ्ख्यपातञ्जलादिमते हि उत्पत्तेःप्राक् कार्य्यं सत् कारणाव्यापारेण व्यर्ज्यते यथोक्तम् ।सांख्यसूत्रे । “त्रिविधविरोधापत्तेश्च” । “अथ सर्बंकार्य्यं त्रिविधं सर्ववादिसिद्धमतीतमनागतं वर्त्तमानमिति ।तत्र यदि कार्य्यं सदा सन्नेष्यते तदा त्रिविधत्वानुपपत्तिः ।अतीतादिकाले घटाद्यभावेन घटादेरतोतादिधर्म्मकत्वानु-पपत्तेः सदसतोः सम्बन्धानुपपत्तेः । किञ्च प्रतियोगित्वस्यप्रतियोगिरूपत्वे तद्दोषतादवस्थ्यात् । अभावमात्रस्वरूपत्वेपटाद्यभावो घटाद्यभावः स्यादभावत्वाविशेषात् । अभावे-ष्वपि स्वरूपतो विशेषाङ्गीकारे चाभावत्वस्य परिभाषा-मात्रत्वप्रसङ्गात् । अथ प्रतियोग्येवाभावविशेषक इतिचेन्न असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वासम्भवादिति । तस्मान्नित्यस्यैव कार्य्यस्यातीतानागतवर्त्त-मानावस्थाभेदा एव वक्तव्याः । घटोऽतीतो घटो वर्त्तमानोघटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात् । नत्वेकस्य भावविषयत्वमन्ययोश्चाभावविषयत्वमिति । ते एवा-तीतानागतत्वे अवस्थे ध्वंसप्रागभावव्यवहारं जनयत-स्तदतिरिक्ताभावद्वये प्रमाणाभावादिति एवमत्यन्ताभावा-न्योन्याभावापप्यधिकरणस्वरूपावेव । न चैवं प्रतियोगि-सत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभावप्रत्ययप्रसङ्गइति वाच्यम् परैरपि प्रतियोगिमति देशे तदत्यन्ताभावाङ्गीकारात् । प्रतियोगिसम्बन्धस्यातीतानागत्रावस्थयोरेवसामयिकात्यन्तामावत्वसम्भवाच्च । तस्मान्नास्मत्सिद्धान्तेऽभावो-ऽतिरिक्तः किञ्च घटो ध्वस्तो घटो भावी घटोऽत्र नास्तो-त्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां तद्भावरूप-मेव कल्प्यते लाघवात् । अभावस्यादृष्टस्य कल्पने गौरवा-दिति” प्र० भा० ॥
“नासदुत्पादो नृशृङ्गवत्” सू० ॥
नरशृङ्ग-तुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः ॥
“उपादानमिय-मात्” सू० ॥
मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवंकार्य्याणामुपादानकारणं प्रति नियमोऽस्ति । स न सम्भवतिउत्पत्तेः प्राक् कार्य्यासत्तायां हि न कोऽपि कारणे विशेषो-ऽस्ति येन कञ्चिदेवासन्तं जनयेन्नेतरमिति । विशेषाङ्गी-कारे च भावत्वापत्तेर्गतमसत्तया । स एव च विशेषोऽ-स्माभिः कार्य्यस्यानागतावस्थेत्युच्यत इति । एतेन यद्वैशे-षिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति तद-प्यपास्तम् । अभावकल्पनापेक्षया भावकल्प्यने लाघवात् ।भावानां दृष्टचादन्यानपेक्षत्वाच्च । किञ्चाभावेषु स्वतोविशेषे भावत्वापत्तिः । प्रतियोगिविशेषश्च प्रतियोग्यसत्ता-काले नास्ति । अतोऽभावानामविशिष्टतया न कार्य्योत्पत्तौनियामकत्वं युक्तमिति ॥
“शक्तस्य शक्यकरणात्” सू० ॥
कार्य्य-शक्तिमत्त्वमेवोपादानकारणत्वम् अन्यस्य दुर्वचत्वात् लाघ-वाच्च । सा शक्तिः कार्य्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्य-कार्य्यकरणान्नासत उत्पाद इत्यर्थः ॥
“कारणभावाच्च” सू०उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्चसत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः । कार्यस्यासत्त्वे हिसदसतोरभेदानुपपत्तिरिति । उत्पत्तेः प्राक् कार्य्याणांकारणाभेदे च श्रुतयः । “तद्धेदं तर्ह्यव्याकृतमासीत् । सदेवसौम्येदमग्र आसीत् । आत्मैवेदंमग्र आसीत् । आप एवे-दमग्र आसुरित्याद्याः ॥
“न भावे भावयोगश्चेत्” सू० ॥
मन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग उत्-पत्तिवोगो न सम्भवति असतः सत्त्व एवोत्पत्तिव्यवहारा-दिति चेदित्यर्थः ॥
“नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यव-हारो” सू० ॥
कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्य्याभिव्यक्ति-निमित्तकौ । अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यमा-वाच्चोत्पत्तिव्यवहाराभावः न त्यसतः सत्तयेत्यर्थः ।अभिव्यक्तिश्च न ज्ञानं किन्तु वर्त्तमानावस्था । कारणव्या-पारोऽपि कार्यस्य वर्त्तमानलक्षणपरिणाममेव जनयति ।सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपिदृश्यते । यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणा-भिव्यक्तिमात्रं तिलस्थतैलस्य च निष्पीडनेन, धान्यस्थतण्डु-लस्य चावघातेनेति । तदुक्तं वाशिष्ठे । “सुसूक्ष्मावस्थयाचक्रपद्मरेखाः शिलोदरे । यथा स्थिताश्चितेरन्तस्तथेयंजगदावली” ॥
एतेषामिवास्माकमप्यनागतावस्थायाः प्रागभा-वाख्याया अभिव्यक्तिहेतुत्वाच्चेति । नन्वतीतमप्यस्तीत्यत्रकिंप्रमाणं? न ह्यनागतसत्तायामिव श्रुत्यादयोऽतीतसत्ता-यामपि स्फुटमुपलभ्यन्त इति । मैवम् । योगिप्रत्यक्षत्वा-न्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः प्रत्यक्ष-सामान्ये विषयस्य हेतुत्वात् । अन्यथा वर्त्तमान-स्यापि प्रत्यक्षेणासिद्ध्यापत्तेः तस्माद्धियामौत्सर्गिकप्रामा-ण्येनासति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यतियोगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकंप्रमाणं योगवार्त्तिके प्रपञ्चितमिति । नन्वभिव्यक्तिरपि पूर्व्वंसती वाऽसती वा । आद्ये कारणव्यापारात् प्रागपि कार्य-स्यामिव्यक्त्या स्वकार्यजनकत्वापत्तिः कारणव्यापारश्चविफलः । अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिःअसत्या एवाभिव्यक्तेरभिव्यक्त्यङ्गीकारादिति अत्रोच्यते ।कारणव्यपारात् प्राक् सर्वकार्य्याणां सदासत्त्वाभ्युपगमेनो-क्तविकल्पानवकाशाद्वटवत् तदभिव्यक्तेरपि वर्त्तमानावस्थयाप्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात् ।अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेः । नन्वेकदासदसत्त्वयोर्विरोध इति चेत् । प्रकारभेदस्योक्तत्वात् ।नन्वेवमपि प्रागभावामङ्गीकारेण प्रागसत्त्वमेब कार्य्याणांदुर्वचमिति । मैवम् । अवस्थानामेव परस्पराभावरूपत्वा-दिति ॥
ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्यभिव्यक्ति-रेष्टव्येत्यत आह । “पारम्पर्यतोऽन्वेषणा वीजाङ्कुरवत्” सू० ॥
पारम्पर्यतः परम्परारूपेणेवाभिव्यक्तेरनुधावनं कर्त्तव्यम्वीजाङ्कुरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः । वीजा-ङ्कुराभ्यां चात्रायमेव विशेषो यद्वीजाङ्कुरस्थले क्रमिकपरम्पर-यानवस्था, आभिव्यक्तौ चैककालीनपरम्परयेति । प्रामाणि-कृत्वन्तु तुल्यमेवेति । सर्वकार्य्याणां स्वरूपतो नित्यत्वमव-स्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीय-मनवस्था प्रामाणिकत्वेन स्वीकृतेति । “उत्पत्तिवद्वाहदोषः”सू० ॥
यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभि-रसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्ते-रप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात् । अत उत्पत्तावि-वाभिव्यक्तावपि नानवस्थादोष इत्यर्थः । अथैवमभिव्यक्तेर-भिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानु-पपत्त्या सत्कार्यवादक्षतिरिति चेन्न । अस्मिन् पक्षे सतएवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात् । अभि-व्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्य-वादत्वापत्तिः । नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतांकिमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न । तद्धेदं तर्ह्यव्या-कृतमासीदित्यादि श्रुतिभिरव्यक्तावस्थायाः सतामेव का-र्य्याणां सिद्धेः तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारा-पत्तिरिति चेन्न । तिसृणामनागताद्यवस्थानामन्योऽन्यस्या-भावरूपतयोक्तत्वात् तादृशाभावनिवृत्तय एव च कारण-व्यापारसाफल्यादिसम्भवात् । अयमेव हि सत्कार्यवादि-नामसत्कार्यवादिभ्यो विशेषो यत् तैरुच्यमानौ प्रागभाव-ध्वंसौ सत्कार्यवादिभिः कार्यस्यानागतातीतावस्थे भावरूपेप्रोच्येते । वर्त्तमानताख्या चाभिव्यक्त्यवस्था घटाद्व्यति-रिक्तेति धटादेरवस्थात्रयवत्त्वानुभवादिति । अन्यत् तु सर्वंसमानम् । अतो नास्त्यस्मास्वधिकशङ्कावकाश इति सां०प्र० भा० । “अतः सिद्धं प्राक् कार्य्योत्पत्तेः कारणसद्भावः ।कार्य्यस्य चाभिव्यक्तिलिङ्गत्वात् अभिव्यक्तेः कार्य्यस्य चसद्भावः प्रागुत्पत्तेः सिद्धः । कथम्? अभिव्यक्तिलिङ्ग-त्वात् । अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिश्च साक्षाद्विज्ञाना-लम्बनत्वप्राप्तिः । यद्धि लोके प्रावृतं तमआदिनाघटादि वस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् प्राक् सद्भावं न व्यभिचरति । तथेद-मपि जगत् प्रागुत्पत्तेरित्यवगच्छामः न हि अविद्य-मानो घट उदितेऽप्यादित्य उपलभ्यते” वृ० भा० ।३ अन्यथा स्थितस्य अन्यरूपेण प्रकाशे “अभिर्व्यक्ते-रित्याश्रथ्यः” शा० सू० । अतिमात्रस्यापि परमे-श्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् अभिव्यज्यतेकिल प्रादेशपरिमाणः परमेश्वर उपासकानां कृते, प्रदेशेषुवा हृदयादिषु प्राणविढ्यास्थानेषु विशेषेणाभिव्यज्यते ततःपरमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्या-श्मरथ्य आचार्य्योमन्यते” इति भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
