| YouTube Channel

अभियुक्तः*** (abhiyuktaH***)

 
E Bharati Sampat
Sanskrit
(वि) अभि+युजिर्(योगे)+क्तः। ‘निष्ठा’ ३.२.१०२। १.अभिज्ञः, निपुणः। ‘न हि शक्यते दैवमन्यथाकर्तुमभियुक्तेनापि’ काद० २.व्यस्तः, तत्परः। ‘स्व स्वकर्मण्यभियुक्तः परिजनः’ मुद्रा० ३.सावधानः। ‘इदं विश्वं पाल्यमभियुक्तेन मनसा’ उ.रा० ३.३० ४.परैः अवरुद्धः। ‘अभियुक्तः परै रूद्धे तत्परेऽपि’ मेदिनी ‘अभियुक्तं त्वयैनं ते गन्तारः त्वामतः परे’ माघः २.१०१ ५.आपादितः, प्रतिवादी ‘अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् मिथ्या तत्तु विजानीयात् उत्तरं व्यवहारतः॥’ नारदव्यवहारतत्वम् ।६.वृद्धः।
Wordnet
Sanskrit
Synonyms:
अभियुक्तः, आरोपी, अभिशस्तः, अभिशस्तकः, अभ्याख्यातः, व्यवहाराभिशस्तः, शोध्यः
noun
यस्मिन् कोऽपि अभियोगः अस्ति।
"सः हत्यायाः अभियुक्तम् अक्षाम्यत्। "
Synonyms:
अभियुक्तः, प्रतिवादी
noun
दोषकल्पनं कृत्वा यस्योपरि अभियोगः कृतः।
"अभियुक्तः आरक्षकात् कपटेन अधावत्।"
शब्दकल्पद्रुमः
Sanskrit
अभियुक्तः, त्रि, (अभि + युज् + क्तः ।) तत्परः पर-कर्तृकरुद्धः इति मेदिनी
(“उद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” ।इति उत्तरचरिते ।“अभियुक्तो यदा पश्येत् किञ्चिद्धितमात्मनः ।युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह” ।इति हितोपदेशे ।) स्मृतिशास्त्रमते अभियोग-विषयीभूतः आसामी इति ख्यातः तत्पर्य्यायः ।प्रत्यर्थी प्रतिवादी यथा, --“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवं ।मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः”
इति व्यवहारतत्त्वे नारदः