| YouTube Channel

अभिमानी (abhimAnI)

 
E Bharati Sampat
Sanskrit
(वि) (अभिमानिन्) अभिमानः अस्य अस्ति अभिमान+इनिः। ‘अत इनि०’ ५.२.११५। १.अहङ्कारी, दर्पयुक्तः। ‘कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपितः सोऽभिमानी’ वेणी०५.२६। २.आत्मगौरवयुक्तः। ‘गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः’ किरा० १.३१ ----- ३. मिथ्याज्ञानयुक्तः। ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ ब्रह्मसू० २.१.५ ४.प्रणयकोपादियुक्तः। (पुं) ५.सौत्यमनोः पुत्रभेदः। ‘अभिमानी प्रवीणश्च सौत्यस्येते मनोः सुताः’ हरिवं० (स्त्री) अभिमानिनी अभिमानिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ४.१.५
Wordnet
Sanskrit
Synonyms:
अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता
noun
यस्य अभिमानः वर्तते।
"अहं तस्य अभिमानिनः छायायाः अपि दूरं स्थातुम् इच्छामि।"
शब्दकल्पद्रुमः
Sanskrit
अभिमानी, [न्] त्रि, (अभिमन्यते, अभि + मन्+ णिनि ।) अभिमानयुक्तः अभिमानग्रस्तः ।यथा, --“कर्त्ता द्यूतच्छलानां जतुमयशरणीद्दीपितः सो-ऽभिमानी” इति वेणीसंहारः