| YouTube Channel

अभिमानशाली (abhimAnazAlI)

 
E Bharati Sampat
Sanskrit
(वि) (अभिमानशालिन्) अभिमानेन शालते अभि+शाङृ(श्लाघायाम्)+णिनिः। ‘नन्दिग्रहि०’ ३.१.१३४। अभिमानी १.गर्विष्ठः, अहङ्कारयुक्तः। ‘प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः’ किरा०२.४८। २.आत्मगौरववान्, दर्पयुक्तः। (स्त्री) अभिमानशालिनी अभिमानशालिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ४.१.५।