| YouTube Channel

अभिमन्थः (abhimanthaH)

 
शब्दकल्पद्रुमः
Sanskrit
अभिमन्थः,
पुं,
(अभि मथ्यते चक्षुः पीड्यतेऽनेन, अभि + मन्थ + करणे घञ् ।) चक्षूरोगः इतित्रिकाण्डशेषः
अधिमन्थ इति वैद्यके पाठः ।तस्य निदानसम्प्राप्तिरूपाणि ।“वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावतां ।तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः
उत्पाट्यत इवात्यर्थं नेत्रं निर्म्मथ्यते तथा ।शिरसोऽर्द्धञ्च तं विद्यादधिमन्थं स्वलक्षणैः”
तु चतुर्विधः यथा “हन्याद्दृष्टिं श्लैष्मिकःसप्तरात्रादधिमन्थो रक्तजः पञ्चरात्रात् षड्रात्रा-द्वै वातिकः संनिहन्यान्मिथ्याचारात् पैत्तिकःसद्य एव”
इति माधवकरः