| YouTube Channel

अभिमतं (abhimataM)

 
शब्दकल्पद्रुमः
Sanskrit
अभिमतं, त्रि, (अभि + मन् + कर्मणि क्तः ।) इष्टं ।सम्मतं यथा, --“अभिमतफलशंसी चारु पुस्फोर बाहु-स्तरुषु चुकुवुरुच्चैः पक्षिणश्चानुकूलाः” ।इति भट्टिः
(हृद्यः प्रियः हृदयङ्गमः ।“स माधवेनाभिमतेन सख्यारत्या साशङ्क्षमनुप्रयातः” ।इति कुमारसम्भवे ।“अनिशमपि मकरकेतुर्मनसो-रुजमावहन्नभिमतो मे”
इति शाकुन्तले ।)