| YouTube Channel

अभिपन्नः (abhipannaH)

 
E Bharati Sampat
Sanskrit
(पुं) अभि+पद(गतौ)+क्तः। ‘गत्यर्था०’ ३.४.७२। १.अपराद्धः, अपराधी २.विपद्गतः, प्राप्तविपत्तिः, अभिग्रस्तः। ३.समीपं गतः आगतः वा, उपागतः। ४.पराजितः, ग्रस्तः। ‘कालाभिपन्नाः सीदन्ति सिकताः सेतवो यथा’ रामा०। ५.शरणार्थी, शरणागतः। ‘अभिपन्नः शरणार्थी’ हैमः। ६.पीडितः। ‘दाहप्रपाकौ शिशिराभिनन्दाः पित्ताभिपन्ने नयने भवन्ति’ सुश्रुतः। ‘अभिपन्नोऽपराध्येऽभिद्रुते ग्रस्ते विपद्गते’ विश्वः। ७.प्राप्तः। ‘त्वमन्यमाकारमिवाभिपन्नः’ किरा०३.४५।
शब्दकल्पद्रुमः
Sanskrit
अभिपन्नः, त्रि, (अभि + पद् + कर्त्तरि क्तः ।) अप-राद्धः अपराधवान् व्यापद्गतः प्राप्तविपत्तिः ।अभिग्रस्तः शत्रुणाक्रान्तः इत्यमरः
(स्वी-कृतः अङ्गीकृतः अभिभूतः पीडितः ।“दाहप्रपाकौ शिशिराभिनन्दाः ।पित्ताभिपन्नेनयने भवन्ति” ।“दृष्टिर्दोषाभिपन्ना” इति सुश्रुते ।)