| YouTube Channel

अभिनीतः (abhinItaH)

 
E Bharati Sampat
Sanskrit
(वि) अभि+णीञ्(प्रापणे)+क्तः। ‘गत्यर्था०’ ३.४.७२। ‘निष्ठा’ ३.२.१०२। १.आभिमुख्येन नीतः, प्रापितः। ‘मितार्थमभिनीतस्त्वं यथावत्कर्तुमर्हसि’ रामा०। २.युक्तः, न्याय्यः।३.अतिसंस्कृतः। ४.मर्षी, क्रोधनः। ‘युक्तेऽतिसंस्कृते मर्षिण्यभिनीतः’ अमरः। ५.भूषितः, अलङ्कृतः। ६.पूजितः। ७.चेष्टादिभिः अनुकृतः। सहनशीलः।
शब्दकल्पद्रुमः
Sanskrit
अभिनीतः, त्रि, (अभि + नी + क्तः ।) युक्तः ।न्याय्यः अतिसंस्कृतः प्रशस्तो भूषितो वा ।अमर्षी क्रोधनः अक्षमावान् वा इत्यमरः
(“अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः ।अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” ।इति महाभारते विज्ञः धीरः ।“स भवान् वित्तसम्पन्नः स्थितः पथि निरत्यये ।मित्रार्थमभिनीतत्वं यथावत् कर्त्तुमर्हसि” ।इति रामायणे ।)