| YouTube Channel

अभिधामूला (abhidhAmUlA)

 
Shabdartha Kaustubha
Kannada
अभिधामूला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಭಿಧಾಮೂಲವಾದ ವ್ಯಂಜನಾವೃತ್ತಿ
प्रयोगाः - > "अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साऽभिधाश्रया ॥"
उल्लेखाः - > सा० द० २-१४
वाचस्पत्यम्
Sanskrit
अभिधामूला स्त्री अभिधा मूलं यस्याः आलङ्कारिकोक्तेव्यञ्ज-नाभेदे अभिधाश्रयाप्यत्र अभिधालक्षणामूला शब्दस्यव्यञ्जना द्विधा अनेकार्थस्य शब्दस्य संयोगाद्यै-र्नियन्त्रिते एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया”आद्यशब्दाद्विप्रयोषादयः” उक्तं हि “संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता अर्थः प्रकरणं लिङ्गं शब्द-स्थान्यस्य सन्निधिः सामर्थ्यमौचिती देशः कालोव्यक्तिःखरादयः शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” इतियथा सशङ्खचक्रो हरिः” इत्यत्र शङ्खचक्रसंयोगेन हरि-शब्दोविष्णुमेवाभिघात्ते अशङ्खचक्रो हरिः इति वियो-गेन तमेव भीमार्ज्जुनौ इति अर्ज्जुनः पार्थः कर्णार्ज्जुनौइति कर्ण्णः सूतपुत्रः स्थाणुं वन्दे इति स्थाणुः शिवःसर्वं जानाति देवः इति देवोभवान् कुपितोमकरध्वजःइति मकरध्वजः कामः देवः पुरारिः इति पुरारिःशिवः मधुना मत्तः पिकः इति मधुर्वसन्तः पातु वोद-यितामुखमिति साम्मुख्यम् विभाति गगने चन्द्रः इतिचन्द्रः शशी निशि चित्रभानुः इति चित्रभानुर्वह्निः ।भाति रथाङ्गम् इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।स्वरस्तु वेदे एव विशेषप्रतीतिकृत् काव्यादौ तस्यविषयोऽतोनोदाहृत इति, यथा दुर्गालङ्घितविग्रहोमनसिजं सम्मीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमाविश्वग्वृतो भोगिभिः नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढांरुचिं धारयन् गामाक्रम्य विभूतिविमूषिततनू राजत्युमा-ल्लभः अत्र प्रकरणेनाभिधया उभावल्लभशब्दस्योमानाम्नीमहादेवी तद्बल्लभभानुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयैवगौरोवल्लभरूपोऽर्थो बोध्यते” सा० द०