| YouTube Channel

अभिज्ञानशकुन्तला (abhijJAnazakuntalA)

 
वाचस्पत्यम्
Sanskrit
अभिज्ञानशकुन्तला स्त्री अभिज्ञायते कर्म्मणि ल्युट् तथाभूतां शकुन्तलामधिकृत्य कृताख्यायिका “तदधिकृत्य कृतेग्रन्थे” पा० अण् आख्यायिकायां तस्य वा लुपि व्यक्ति-वचनतेति स्त्रीत्वम् कालिदासकृतौ दुष्यन्तेम गान्धर्ववि-धिना कृतोपयमां कण्वकन्यां शकुन्तुलामधिकृत्य कृते नाट-कभेदे तस्याश्च दुर्वासःशापात् प्रथमं दुष्मन्तेनानभिज्ञानात्पश्चाच्च स्वदत्ताङ्गुरीयकरूपाभिज्ञानदर्शनेन प्रत्यभिज्ञातत्वात्तामधिकृत्याख्यायिकारूपत्वान्नाटकस्य तथात्वम् “कालि-दासस्य सर्वस्वमभिज्ञानशकुन्तला” लुबभावे आभिज्ञान-शकुन्तलम्
न०
“नवेनाभिज्ञानशकुन्तलेनेति” शकु०