| YouTube Channel

अभिजातः (abhijAtaH)

 
Hindi
Hindi
का जन्म
E Bharati Sampat
Sanskrit
(वि) अभिमतं प्रशस्तं जातं जन्म यस्य अभि+जनी(प्रादुर्भावे)+क्तः। १.कुलीनः, सत्कुलप्रसूतः। ‘जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः’ रघुः१७.४। २.पण्डितः, ज्ञानी ‘सङ्कीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्’ वृद्धाः। ३.न्याय्यः। ‘अभिजातः कुलीने स्यान्न्याय्यपण्डितयोरपि’ मेदिनी ४.मनोहरः, प्राप्तरूपः, मधुरः। ‘अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः’ विश्वः। ‘प्रजल्पितायामभिजातवाचि’ कुमा०१.४५।
शब्दकल्पद्रुमः
Sanskrit
अभिजातः, त्रि, (अभिजन् + भावे क्तः, अभिमतंप्रशस्तं जातं जन्म यस्य सः ।) सुन्दरः न्याय्यः ।इति विश्वः
कुलजः कुलीनः बुधः पण्डितः ।इत्यमरः
(श्रेष्ठवंशोद्भवः ।“जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः ।अमन्यतैकमात्मानमनेकं वशिनां बशी”
इति रघुवंशे ।“न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापकृतं वदेत् ।मङ्खीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतं”
इति मनुः उचितः उपयुक्तः योग्यः सुरूपः ।मनोहरः मान्यः पूज्यः धन्यः श्लाघ्यः ।भगवान् समृद्धः ।)