| YouTube Channel

अभिघाती (abhighAtI)

 
Apte Hindi
Hindi
अभिघाती
पुं*
- अभि+हन्+णिनि
शत्रु
E Bharati Sampat
Sanskrit
(पुं) (अभिघातिन्) अभि+हन(हिंसागत्योः)+णिनिः। ‘सुप्यजातौ णिनिः०’ ३.२.७८। १.शत्रुः, वैरी, अरातिः। ‘अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः’ अमरः। ‘एकदा विगृह्णीयात् बहून् राजाभिघातिनः’ हितो०। (वि) २.आघातजनकः, पीडाकारकः। ‘सुव्यवस्थितमन्त्रेण परमर्माभिघातिना भवितव्यं नरेन्द्रेण कामवशवर्तिना’ रामा०। ३.समूलनाशकः। (स्त्री) अभिघातिनी अभिघातिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ३.१.५।
Wordnet
Sanskrit
Synonyms:
शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः
noun
येन सह शत्रुता वर्तते।
"शत्रुः अग्निश्च दुर्बलः नास्ति।"
शब्दकल्पद्रुमः
Sanskrit
अभिघाती, [न्]
पुं,
(आभिमुख्येन हन्ति, अभि +हन् + णिनि ।) शत्रुः इत्यमरः
(विपक्षः
आक्रमणकारी ।“एकदा विगृह्णीयात् बहून् राजाभिघातिनः ।सदर्पोऽप्युरगः कीटैर्बहुभिर्नश्यति ध्रुवं”
इति हितोपदेशे पीडाजनकः आघातकारी ।“सुव्यवस्थितमन्त्रेण परमर्म्माभिघातिना ।भवितव्यं नरेन्द्रेण कामवशवर्त्तिना” ।इति रामायणे प्रतीकारः अपसारणं ।)