| YouTube Channel

अभिगम्यः (abhigamyaH)

 
E Bharati Sampat
Sanskrit
(वि) अभिगन्तुं शक्यः। अभि+गम्लृ(गतौ)+यत् ‘पोरदुपधात्’ ३.१.९८। १.आभिमुख्येन गन्तुं शक्यः, सुकरतया उपगन्तुं योग्यः। ‘अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः’ रघुः१.१६। (अ) अभि+गम्लृ(गतौ)+ल्यप् २.अभिमुखं गत्वा, प्राप्य ‘मनुमेकाग्रमासीनमभिगम्य महर्षयः’ मनुः१.१।