| YouTube Channel

अभिगन्तव्यः (abhigantavyaH)

 
E Bharati Sampat
Sanskrit
(वि) अभितः समासाद्यः। अभि+गम्लृ(गतौ)+तव्यः। ‘तव्यत्तव्या०’ ३.१.९६। १.प्राप्तुं योग्यः, अभिगम्यः। २.सेव्यः। ‘सन्तः सदाभिगन्तव्या यद्यप्युपदिशन्ति या हि स्वैरकथास्तेषामुपदेशा भवन्ति ताः’ रामा०।