| YouTube Channel

अभागः (abhAgaH)

 
E Bharati Sampat
Sanskrit
(वि) भागः दायादग्राह्यधनाद्यम्, एकदेशः यस्य १.निर्दायः, भागशून्यः। ‘यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातृन् यवीयसः। सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः’ मनुः ९.२१३ (पुं) भागः। २.पूर्णः। ‘यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्ति’ शत.ब्रा०। ३.भागाभावः