| YouTube Channel

अभयाद्य (abhayAdya)

 
वाचस्पत्यम्
Sanskrit
अभयाद्य
पु०
अभया हरितकी आद्या यस्य वैद्यकोक्तेमोदकभेदे “अभया पिप्पलीमूलं मरिचं नागरंतथा
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि कर्षःप्रत्येकमेषान्तु दन्त्याः कर्षत्रयन्तथा
षट्कर्षाश्च सितायास्तुद्विपलं त्रिवृतो भवेत् सर्वं सुचूर्ण्णितं कृत्वा मधुना मोदकंकृतम्
खादेत् प्रतिदिनञ्चैकं शीतञ्चानुपिबेज्जलम् ।तावद्विरिच्यते जन्तुर्य्यावदुष्णं सेवते
अभयाद्योमोद-कोऽयम्” चक्रदत्तोक्तः