| YouTube Channel

अभयः (abhayaH)

 
E Bharati Sampat
Sanskrit
(पुं) भयम् अस्मात् १.परमात्मा, विष्णुः। २.ब्रह्मज्ञानम् ३.यात्रिकयोगभेदः। ‘यत्रैकादशगश्चन्द्रो भानुर्वा प्रबलः शुभः अभयो नाम योगोऽयमरिभूतविनाशकृत्’ -ज्यो०। ४.सर्वपरिग्रहशून्यः, शास्त्रोपदिष्टे अर्थे असन्देहेन अनुष्ठाता, तपस्वी ५.अभयहस्तः, अभयवचनम् (न) भयम् ६.भयराहित्यम्, अभीतिः, धैर्यम् ‘यो दत्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः’ मनुः६.३९। ७.रक्षणम् ‘मा भैषीः’ इत्युक्त्वा उत्तोलितदक्षिणहस्तप्रसारभेदः। ‘अभयं वरदं चैव दक्षिणे दधती क्रमात्’ श्यामाब्यानम् ‘नातः परतरो धर्मो नृपाणां यद्रणार्जितम् विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा’ याज्ञ०१३.३२३। ८.उशीरः, वीरणमूलम् (स्त्री) अभया ९.हरीतकी ‘अभयमुशीराभीत्योरभया तु हरीतकी’ हैमः। (वि) भयं यस्य १०.भीतिरहितः, निर्भयः। ‘अभयं नलदे स्त्री तु पथ्यायां निर्भये त्रिषु’ नानार्थर०।
Wordnet
Sanskrit
Synonyms:
अभयः
noun
धृतराष्ट्रपुत्रः।
"अभयस्य वर्णनं पुराणेषु प्राप्यते।"